This page has not been fully proofread.

१४. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१९७
 
बाणोऽयं मम ताटकात्मशिरसि स्नातः स्वसुर्नासिका -
प्राणायामपरः खरत्रिशिरसां हुत्वा दशास्याहुतिम् ॥
मारीचं च बलिं विधाय तदनु त्वाचम्य वारांनिधिं
भोक्तुं रावणमामिषं मृगयते भो दीयतां मैथिली ॥ २९ ॥
 
वाण इति । आत्मा रुधिरं तद्युक्ते शिरसि 'देहे धातुपु कूटस्थे जीवेण्यात्मा
मतः पुमान्' इति विश्व: । धातुना रुधिरं गृह्यते । स्वसुस्त्वद्भगिन्याः शूर्पणखाया
साहचर्याहूपणोपि रावणस्येदं रावणम् । रावणस्यामिषमित्यर्थः ॥ २९ ॥
रावणस्तथापि सावज्ञम् -
 
क्लीयानामेव युद्धेषु प्राणत्राणाय राम धीः ।
लज्जाप्रशान्त्यै संसत्सु मूर्खाणामिव मूकता ॥ ३० ॥
 
क्लीवेति । हे राम, रणेपु प्राणत्राणाय या धी: लज्जाप्रशान्त्यैसन्धये सा क्कीवा-
नामेव । यथा विद्वत्सु लज्जाप्रशान्त्यै मौर्याच्छादनाय मूर्खाणां मौनस्वीकारः तथा
कातर्याच्छादनाय संधिरिति ॥ ३० ॥
 
(गगनमण्डलमवलोक्य - )
 
रे काल त्वमकाललब्धविभवः स्वैरं सकामो भंव
शंभो भूषय नूतनैः शवशिरोमाल्यैर्निजाङ्गं मुहुः ।
किं च त्वं च विरिश्च संचिनु जगत्सर्गाय बीजं क्वचित्
सन्नद्धः करवालमीषणभुजो युद्धाय लंकेश्वरः ॥ ३१ ॥
 
1
 
रे इति । अनवसरप्राप्तैश्वर्यः । एतस्याशेपहननमैश्वर्य हे विरिञ्च जगत्सर्गाय पुनः
सृष्टधै वोजं संचिनु गोपाय निःशेषेण नरान्हनिष्यामीति भावः ॥ ३१ ॥
 
राममाक्षिपति-
तथ वा जानकी राम कामं पास्यति मन्दिरे ।
रणे वा दारुणो गृध्रो मधुरानधरान्मम ॥ ३२ ॥