This page has not been fully proofread.

१९६
 
[ अङ्क:-
-
 
हनुमन्नाटकं -
 
र्जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः ।
जितं मन्ये कारागृह विनिहतं हैहयपतेः
 
पुलस्त्यो यद्भिक्षामकृत कृपणं तद्व्यथयति ॥ २५ ॥
 
न दूये इति । कृपणं सदैन्यं यथा स्यात्तथा हैहयपतेः सकाशाद्यत्पुलस्त्यस्त्वत्पि
तामहः यद्भिक्षामकृत तद्भिाहरणं व्यथयतीत्यर्थः ॥ २५ ॥
 
'
 
यो रामो न जघान वक्षसि रणे तं रावणं सायकैः
स श्रेयो विदधातु वस्त्रिभुवनव्यापारचिन्तापरः ।
हृद्यस्य प्रतिवासरं वसति सा तस्यास्त्वहं राघवो
मय्यास्ते भुवनावली विलसिता द्वीपैः समं सप्तभिः ॥२६॥
 
य इति । वक्षोनिषेधादन्याङ्गहननमायातं सा सीता सप्तद्वीपैः सप्तभिः पृथिव्या-
द्यावरणैः समं 'द्वीपोखियामावरणे पुंस्येवान्तर्जलावनौ' इति जयन्तः । पुनः
कीदृशी । भुवनावलीविलसिता विलीयते सर्वमस्मिन्निति विलं प्रकृतिस्तया सिता
आवृता सप्रकृत्यावरणेत्यर्थः । 'लीङ् विलापने' इत्यस्य विलमिति रूपं । अन्यथा
द्वीपानां त्रिभुवनान्तः पातित्वादानर्थक्यप्रसङ्गः स्यात् एतद्धनने अकस्मान्महारण:
स्यादिति भावः । अनेन विप्रलम्भोन्मादावस्था च दर्शितेति भावः ॥ २६ ॥
 
"स प्रौढरावणरुषा विहितावलेपः
सज्जो बभूव दृढसङ्गरबद्धदीक्षः ।
आपन्नभीतिहरणं व्यवसायिनां हि
प्राणास्तृर्ण विपुलसत्त्वसहायभाजाम् ॥ २७ ॥
 
स इति । स रामः अवलेपो गर्वः सत्त्वमुत्साहः स एव सहाय : तं भज-
न्तीति ॥ २७ ॥
 
तत्र रामो रतिं लेभे न प्रियाविरहार्दितः ।
तत्सत्यं मनसि स्वस्थं रम्याणां रमणीयता " ॥ २८ ॥
 
तत्रेति । सुवोधम् ॥ २८ ॥