This page has not been fully proofread.

१४.].
 
दीपिकाख्यव्याख्योपेतम् ।
 
१९५
 
वन्द्या इति । हमिति कोपेअव्ययम् । हे रावण, एते रामादयो वन्द्याः नमःस्तुति-
योग्या एव । कीदृशाः । वर्ततां व्याहर्तॄणां मध्ये विचारणीयचारेता न अत एव लोके
महान्तस्ते प्रसिद्धाः । अविचारणीयत्वमेवाह - सुन्दस्त्री ताटका तहमनेपि अखण्डे
यशो येषां ते स्त्रीवधादपकीर्तिवाहुल्यनियमात् अतस्ते तिष्ठन्तु, तद्वार्तया किं कृत्यं ?
चेद्रोर्यमेव श्रोतुकासोसि तर्हि शृणु । यानि प्रसिद्धानि नोणि मुखानि त्रिशिरः
शिरांसि च कुतः सकाशात्पराणि देहाद्भिन्नानि आसंस्तत्त्वमेव वद । वा लिनने
फियत्प्रावीग्यं तत्रापि जनः अर्थात्त्वमेवाभिज्ञोसि वालिना त्वं बद्धः स तु रामेण हत
इति भावः ॥ २२ ॥
 
रावणः-
शंभोः पर्वतकन्दुकेन महती क्रीडा कृता येन तं
रे रे मानव राम मा स्मर भवं देवेश्वरं रावणम् ।
ज्याघोपं कुरु ताडकान्तमसुराणामन्तकं संयुगे
यश्चानीतिसमग्रवीरकुटिलः शाखामृगाणां पतिः ॥ २३ ॥
 
शंभोरिति । भवं चेन स्मरसि । ' आकृतौ भवमव्ययम् ' इति विश्वः । तर्हि
ज्याघोपं कुरु अनीती समन्नां धियमीरयन्ति ये तेष्वपि कुटिलः अत्यनीतिवानिति
शाखामृगाणां यः पतिर्वाली तस्याप्यन्तकं ज्याघोपं कुर्वित्यर्थो व्यङ्गयः ॥ २३ ॥
 
रामस्वथापि तं रावणं न जधान । लज्जावनम्रव-
दनाम्बुजः सन् मनाक् स्थितः रावणः
( विहस्य ) रे रे मानव राम !
यो मया निहतो घोरे समरे तव पूर्वजः ।
 
अनरण्यः किमय त्वां व्यथयत्यथ लज्जितः ॥ २४ ॥
 
य इति सुवोधम् ॥ २४ ॥
 
रामः- ( निःशंकम् ) रे रे राक्षसाधम पश्य ?
न दूये नः पूर्वं नृपतिमनरण्यं यदवधी-