2023-03-19 23:53:42 by ambuda-bot
This page has not been fully proofread.
१९४
हनुमन्नाटकं
[ अङ्क:-
दृशमानेन कलशशिशुना किं पीतः । किंतु महानव्धिरल्पतरोगत्स्य इति च । पुनः
हरिरिन्द्रः तुल्याकारान्स्वल्पप्रमाणान्खगान् गिरीन्प्रहरति अपि तु स्वयमल्पः अद्रय-
'स्तुङ्गा: 'पक्षिपर्वतयोः खगः' इति हैमी । तेषां सपक्षत्वात् । किंभूतान्खगान् ।
अद्रितुङ्गान् सूर्यपर्यन्तोन्नतान् 'अद्रयो द्रुमशैलार्काः' इत्यमरः । तत्र तस्मिन् प्रस्तावे
अगम्या गन्तुमशक्या: समुद्रादयः, प्रथितवपुषः गिर्यादयः, तिग्मस्वभावाः स्वभा
वतेजस्विनः अगस्त्येन्द्रादयोपि सन्तु भवन्तु । तेषां सर्वेषां ग्रासग्रहणे कवलग्रहणादौ
सरभसं सत्वरं हे राम ! ते नामधेयमस्तीति शेषः । रामोयमिति शब्देनैव ते नष्टा
भविष्यन्ति किमत्राल्पदीर्घविचारणयेति भावः । कतिचित्पुस्तकेषु रावणवाक्य-
मिदम् । तत्पश्यामूनिति पाठः । तत्रायमर्थः-यावानन्धिस्तावानगस्त्येन पीतः तावता
सर्वपानेन किं का नो हानि: ? यावर्ता भवता तु वद्ध एव । इन्द्रापि गिरीन्प्रहरति
तेन गिरिप्रहरणेन किं का नो क्षतिर्मत्पुत्रेण बद्ध एव तथा त्वयापि । गिरिसमा:
शौर्यादिहीना: केचन राक्षसा हताः तत्तस्मात्प्रथितं वपुर्येषां ते तिग्मस्वभावाः
स्वभावतीक्ष्णा: मादृशा राक्षसाः सन्तु तिष्ठन्तु । अमूनल्पतरान्राक्षान्पश्यसि ?
हे राम, तेषां तिग्मस्वभावानां ते नामधेयं त्वन्नान्नाख्यातं सैन्यं च ग्रासग्रहणाय
रभसं शून्यं, न किमपीत्यर्थ: 'रभसः पदशून्ययोः' इति चरकः ॥ २० ॥
रावण:-
स्त्रीमात्रं ननु ताङका मुनिसुतो रामः स विप्रः शुचि-
मरीचो मृग एव भीतिभवनं वाली पुनर्वानरः ।
भो काकुत्स्थ विकत्थसे वद रणे वीरस्त्वया को जितो
दोर्गवस्तु तथापि ते यदि पुनः कोदण्डमारोपय ॥ २३ ॥
स्त्रीमात्रमिति । विकत्थसे विकत्थनां करोषि । अतो वद त्वया वीरः को जितः १
अन्यत्सुवोधम् ॥ २१ ॥
अत्रान्तरेऽङ्गदः -
वन्यास्ते न विचारणीय चरितास्तिष्ठन्तु हुं वर्ततां
सुन्दस्त्री दमनेप्य कुण्ठयशसो लोके महान्तो हि ते ।
यानि त्रीणि कुतो मुखान्यपि पराण्यासन्वरायोधने
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ २२ ॥