This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
रामरावणयोः-
रणाङ्गणे कुण्डलिनो युवानः परस्परं सायकभिन्नदेहाः ।
कुचाग्रलग्ना इव कामिनीनां कुम्भाग्रलनाः सुषुपुर्गजानाम् ॥ १७॥
गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव ॥ १८ ॥
रणेति । कुचस्थानीयः कुम्भः ॥ १७ ॥ १८ ॥
 
तत्र सारो नाम राक्षसस्तुमुलयुद्धे-
आश्वारूढस्तु यावद्व्रजति न शिबिरं वाजिनः पूर्वम
धावन्तं खण्डितस्य स्वमरिकुलबलात्पादयुग्मेन धीरः ।
सारः ऋव्यादवीरः शिरसि करतलोत्थापितेनाङ्गदेन
क्रुद्धेनाताड़ितो द्राक् शिव शिव समरे पश्चिमान तावत् ॥ १९॥
 
१४. ]
 
१९३
 
अश्वेति । यावत्क्रव्यादवीरः सारः खण्डितस्य मध्यतः कृत्तस्य वाजिनोश्वस्य
पूर्वार्धमध्यारूढः अरिकुलवलाच्छत्रुसैन्यात्सकाशात् शिविरं स्वकटकं पादयुग्मेनन
खण्डितश्चार्धप्रदेशे कृत्तस्तञ्चरणयुगुलेन न व्रजति न गच्छति धावन्तं अर्ध तावत्
क्रुद्धेनाङ्गदेन द्राक् शीघ्रं समरे पश्चिमाघेंन कृत्वा पश्चिमभागेन कृत्वा शिरसि
आताडितः । किंभूतेन । पश्चिमाघेंनाङ्गदकरतलोत्थापितेन शिव शिव कष्टम् ॥१९॥
अदः (वा) रावणः-
यावानब्धिः कलशशिशुना तावता किं च पीतः
तुल्याकारान्प्रहरति हरिः किं खगानद्रितुङ्गान् ।
तत्रागम्याः प्रथितवपुषः सन्तु तिग्मस्वभावा-
स्तेषां ग्रासग्रहणरभसं राम ते नामधेयम् ॥ २० ॥
 
महच्छरीराणि रक्षांस्यल्पशरीरान्वानरानवलोक्य जये विचिकित्समानं रामं
बोधयति यावानिति । हे राम ! अन्धिर्यावान् मानतोऽगाधतायाश्च तावता तत्स-