This page has not been fully proofread.

१९२
 
हनुमन्नाटकं -
 
- सासूर्य भातृकृत्ये समयमनिलजे सत्रपं चात्मकंत्ये
क्षिप्तं तद्वऋचक्रं रजनिचरपतेर्भिन्नभावं बभूव ॥ १५ ॥
 
[3F:-
#
 
साश्चर्यमिति । रजनीचरपते रावणस्य वक्त्रचक्रं मुखसमूहः भिन्नभावं चित्रर-
साश्रयं वभूव । भिन्नत्वमेव विवृणोति - रामे साश्चर्य सविस्मयं सद्भुतरसमिति सप
-सोत्साहं सवीररसमिति 'उत्साहात्मा भवेद्वरिः सव्यथं सविषादं सशान्तरसमिति
विपाद: संचारिको वा । मया सीतानीता यतो देवा अपि वलान्ते, अद्यापि संघि
करोमीति विपादः । तदुक्तं रसोदधौ 'विपदिष्टाद्यनवाप्तेः प्रारब्धा सिद्धितोपराधाच्च ।
अनुतापोत्र विपादो विज्ञेयो मुक्तिसंबन्धः ॥' साशङ्कं सविप्रलम्भशृङ्गारं, शङ्कास्य
संचारी । रामः सीतां मा गृहात्विति शङ्का । उक्तं च रसोदवौ - 'स्वीयापराधचौर्य
कृतपरचौर्यादितो मता शङ्का । स्वानिष्टेक्षणयोगस्तदभयभावोऽत्र विश्लेपः ॥' अत्र
स्वानिष्टेक्षणं सविनयं सदैन्यं सकरुणमिति दैन्यं संचारी । हनूमदादिदर्शनोदीपि-
ताक्षपुत्रवधादैन्यं साश्रुपूरं रसाद्रौद्ररसात्क्रोधस्थायी । क्रोधानुभवमश्रु तत्रैव लक्ष्म-
णदर्शने सति मेघनादे वत्सलरसो जातः । एतेन पुत्रो हत इति उद्दीपनं वात्सल्या-
दभ्रूणि । अत्र रसद्वयं वक्त्रद्वये ज्ञेयम् । सासूयं सहास्यरसं हास्येसूयासंचारी सा
च विभीपणगता, असूयातोपि हि हास्यं भवतीति प्रसिद्धम् । सभयं भयानकरसः
भयं स्थायी सत्रपं सवीभत्सं त्रपात्रानुभावः । सा च या जुगुप्सातो भवति जुगु-
प्सा स्थायी । एवमद्भुतवीरशान्तशृङ्गारकरुणारौद्रवत्सलहास्यभयानकवीभत्साः
यथाक्रमं ज्ञेयाः ॥ १५ ॥
 
बद्धा तूणान्दशोच्चैर्मघवह सटावेणिबन्धेनवा -
दोर्भिश्वापान्विधुन्वन्दशदश च शरान्दक्षिणैराददानः ।
क्ष्वेडन्क्रीडन्प्रकुप्यन्त्र सरदभिभवद्गर्जितातर्जितौधैः
शश्वत्खिद्यन्मुख श्रीरवतरति रणमाङ्गणे राक्षसेन्द्रः ॥ १६ ॥
 
वद्धेति । इन्द्राश्वकेशश्रेण्यां उच्चैर्गाढं दशतूणान्निषङ्गान्डावामैर्दशभिर्दोभिर्दश
चापान्विधुन्वन्सन्दक्षिणैर्दशभिदोर्भिः दशशरानाददान: । दशमुखेपु पृथक्पृथग्भावं
द्योतयति अन्त्र रसः प्रन्थगौरवान्नोद्घाटथते । कीदृक् राक्षसेन्द्रः । क्ष्वेडन्हसन्
'क्ष्वेडामर्पगतं हास्यम्' इति धरणिः । द्वन्द्वः तच्च मुखं तेषां श्रीर्यस्य तच्चाधिकं दुश-
धोक्तम् ॥ १६ ॥