This page has not been fully proofread.

दीपिकाख्यंव्याख्योपेतम् ।
 
१९१
 
'ब्रह्मावासशिरोविष्णुर्भजिकास्वपि मस्तके' इति शाश्वतः । जनकजारामः जनक-
जाया रामः कामा यस्य । वागर्थे जनकजायाः सकाशादराम: अक्रीडो यस्य मृत्यु -
रिवि । अन्यत्सुयोधम् ॥ १२ ॥
 
१४. ]
 
?
 
नीचैववौ परिमितः पवनो वनेषु
 
मन्दीचकार तराण: खरतां करेषु ।
रक्षः पतिं गगनमातमवेक्ष्य साक्षा-.
 
नद्यो ययुः स्थगिततुंगतरङ्गभंगाः ॥ १३ ॥
 
नीचैरिति खरतां तीक्ष्णत्वं गगनं आकाशं प्रति आप्तं प्राप्तमवेक्ष्य दृष्ट्वा । यद्वा
एकमेव पदम् । गे आकाशे ये गाः देवगणास्तेपां नमः प्रहृत्वं प्राप्तं येन, गगने
यत्रावलोकयति तत्रैच देवा नमन्तीति भावः । 'गकारो गगने द्वीपे गणेशे गोगणेपि
च' इति शाश्वतः । 'णम प्रहीभावे' इत्यस्याप्रत्यये नमः ॥ १३ ॥
 
आकाशे-
यदा नीलो लंकाधिप सुभट कोदण्डा शेखरे
स्थितव्यञ्चद्वाप्पाकलितमृगतृष्णान्वितगिरिः ।
तदैवं देवानां मतिरजनि दिङ्मण्डलजुषां
धनुःशृङ्गे भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥ १४ ॥
 
यदेति । रावणस्य प्रत्यासन्नत्वादानन्दे देवानामुन्म दावसरे नीलो वानरः लङ्का-
धिपश्चासौ सुभटस्तस्य कोदण्डाग्रभागे स्थितोभूदिति शेषः । किंभूतः । चञ्चन्तो
ये बाप्पा: क्रोधाश्रणि गिरिप्रस्रवणवारीणि तैराकलिता करम्बिता मृगतृष्णा तद्-
न्वितो गिरिर्यस्मिन्सः, हस्ते घृतगिरिनल: रावणधनुर स्थित इति तात्पर्यार्थः ।
 
}
 
तदा दिङ्मण्डनजुपां स्वस्वदिगाकाशस्थितानां देवानां मतिरेवं जनिता । एवं किम्
रावणहस्तधनु:शिखरे भृङ्गस्थानीयो नीलः श्यामत्वान्नीलहस्ते गिरिस्तत्र गिरौ जल
स्थानीया तृष्णागिरिप्रस्रवणा अयमेवोन्मादः ॥ १४ ॥
 
साध्य तत्र रामे सपटु भटमुखे सव्यथं देवतौर्ये
साशंकं रामयुद्धे कपिषु सविनयं लक्ष्मणे साश्रुपूरम् ।