2023-03-19 23:53:08 by ambuda-bot
This page has not been fully proofread.
हनुमन्नाटकं -
[ अङ्कः-
सहस्रबाहुस्त्वामहं द्विवाहुस्त्वं सैन्ययुक्तोऽस्यहमेक एव ।
त्वं चक्रवर्त्ती मुनिनन्दनोऽहं तथापि नौ पश्यतु तर्कमर्कः ॥
२०
'व्रातः स्तोमः समूहो स्त्री'। अन्यत्सुगमम् । 'स्फीतेन फूत्कारेण प्रफुल्लाभ्यां
नासापुटाभ्यां नासाविवराभ्यां उद्गीर्णो वहिर्भूतः प्रभूतो महान् गर्वोऽहंकारी यस्य
तादृशरोषानल एव कालकूटं विपं तस्य धूमस्तोमेनाच्छादितमावृतं दिशां मंडलं
समूहो येन ' इति टीकान्तरात् । अरेरे इत्याक्षेपे । अकाण्डमनवसरं प्रचण्डौ यो
दोर्दण्डौ तयोः कोदण्डखण्डनरूपो यश्चण्डिमा चण्डत्वं तदाडम्वरेण जगत्रयं कथ-
'काण्डोऽस्त्री दण्डवाणार्ववर्गावसरवारिपु' इत्यमरः । जात मान्त्वं न
मापूरितम्
वेत्सि ? किंभूतम् । सकलवसुमती पृथ्वी तस्या मण्डलस्य ये आखण्डला इन्द्राः
राजानस्त एव कुमुदिन्यस्तासां पक्षस्य या लक्ष्मीः राज्यादिरूपा तद्धरणे फिरण-
मालिनं सूर्यम् । तं कम् । येन कार्तवीय नृप इत्युक्तः । तदेवाह । तर्क न्याय्यम् ।
शेषं सुगमम् ॥ ३५ ॥
1
उरकृत्योत्कृत्य गर्भानपि शकलयितुं क्षत्रसंतानरोषा-
दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् ।
पित्र्यं तद्रक्तपूर्णप्रतिवचनमहो मन्दमन्दायमान-
क्रोधाग्नेः सर्वतो मे स खलु न विदितः सर्वभूतैः स्वभावः ३६॥
हे मन्द कार्याकार्यमूढ, मे स्वभावः सर्वभूतैर्न विदितो न ज्ञातः न, अपि तु तु
विदित एव । अहो यद्भवता न ज्ञातस्तदाश्चर्यमित्यहोपदेन ध्वनितम् । स्वभावमेव
द्योतयति–किंविशिष्टस्य मे । क्षत्रसंताने यो रोपस्तस्माद्गर्भानप्युत्कृत्योत्कृत्य पुनःपुन-
रुद्रान्निः सार्य शकलयितुं खण्डयितुं उद्दामस्य गतदयस्य । पुनः सर्वतः सर्वान्त्री-
वृद्धतरुणरूपपुरुपान्राज्ञां वंशेषु जातान्क्षत्रियानेकविंशत्यवधि एकविंशतिवारं विश
सतो घातयतः । पुनः पित्र्यं पितृणामिदं पित्र्यं तर्पणादि प्रयोगे द्वितीया । मन्दाय -
मानः क्रोधाग्निर्यस्य यथा यथा पित्र्यमकरवं तथा तथा शान्तक्रोधोऽभवमिति
भावः । किंविशिष्टम् । सर्वतः इति सर्व यथा स्यात्तथा तद्रक्तपूर्णप्रतिवचनं तेषां
क्षत्रियाणां रक्तेन पूर्ण निष्पादितं प्रतिवचनं प्रतिकरणीयं यस्मिंस्तत् । यत्तिलकुश-
यवादिसूचकं वचनं तद्रक्तेनैव सम्पादितमिति भावः । एवंभूतोऽपि भवता न ज्ञात-
स्तदाश्चर्यम् ॥ ३६॥