2023-03-19 23:53:41 by ambuda-bot
This page has not been fully proofread.
i
१९०
हनुमन्नाटकं -
[ अंङ्क:-
दत्ता दावविपत् दावाग्निदुःखं येषां ते रावणेनापि स्त्रशैलस्त्रिकूटशिखर: उत्पाट्य
सुप्रीवाय प्रहितः अयं शिखर: निज आत्मीयो यः कुण्डस्ततो ये निर्झरा: प्रस्रवणा-
स्तेर्पा जलैर्हेतुभिः । जम्बालपिण्ड: शैवालपिण्डवद्द्द्दृश्यते । 'कुण्डस्तटे हदे कुण्डम्
इति घरणिः । पिण्डत्वं द्योतयति-लकेशहस्तपंक्त्या पिष्टः पिण्डोकृतः पुनःपुनः
कन्दुकवदुत्पत नेनातिरिक्तभङ्गात्पिण्डीभूतः स्रवज्जलः शिखरो जम्बालपिण्डवद्दश्यत
इति भावः ॥ १० ॥
तथैतेनोद्धृत्य स्फटिकशिखरी सोपि विदधे
समन्तादामूलत्रुटितव सुधाबन्धविधुतः ।
अमुं येनायापि त्रिपुरहरनृत्यव्यतिकरः
पुरस्तादन्येषामपि शिखरिणामुल्लसयति ॥ ११ ॥
उत्पाटने प्रयोजनमाह-तथेति । यथा त्रिकूटशिखर: उत्पाटितः तथानेन रात्रणेन
स्फाटिकगिरिरुद्धृत्योत्पाटथ समन्तादामूलं अभिव्याप्य त्रुटितो यो वसुधावन्धन
विधूतः विशेषेण कम्पितः विश्वे कृतः । सोपि स्फटिकशिखर्यपि अद्यापि येन
उत्पाटनेनान्येषामपि शिखरिणां पुरस्ताद अमुं रावणं- पुरहरः रुद्रस्तदर्थे यो
नृत्यव्यतिकरः नृत्ये सति व्यतिकरः कोपातिशयस्तमुल्लसयति शिक्षयति स्मारयती-
त्यर्थः । कोर्थः । यथा तदुत्पाटने रुद्रस्तुष्टः तथैतेषामपि उत्पाटने नन्दयित्वा भवन्तं
'रक्षिष्यतीति भावः ॥ ११ ॥
.
रावणः ( सक्रोधम् ) रथारोहणं नाटयति-
भेरीमर्दलशंखतालनिकरस्वानोडसत्काहलो
निःसाणस्वन
पूर्णकर्णकुहरो निर्यन्नगर्या बभौ ।
युद्धार्थं दशकन्धरो रथगतो माणिक्यमौलिर्यशो-
दीपादीपितमस्तको जनकजारामो विधेः कर्मणा ॥१२॥
1
भेरीति । दशकन्धरः विधेः कर्मणा आज्ञया प्राक्तनकर्मप्रेरणयेति यावत् । यद्वा .
विधेर्ब्रह्मणः शक्तिदानादिषु ब्रह्मसंवन्धस्य सत्त्वान्नगर्याः सकाशायुद्धार्थे निर्यनगच्छ-
न्सन्वभावित्यन्वयः । यशोविजय एव दीपस्तेनादीपितः प्रकाशितः मस्तकः ब्रह्म-
लोको येन । तत्पर्यन्तविजयोति भावः । तद्गमनेपि तत्र प्रतापगमनसत्त्वात् ।