This page has not been fully proofread.

१४. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
अथ रामाज्ञया वानरभटा:-
उद्यद्दिक्पालकोलाहलबहलमदावग्रहोग्राभिरक्षणां
ताराभिर्दीप्यमानं दिशि विदिशि दशग्रीवमुद्रीवयन्तः
एते निःशेषसेतुग्रथनसमधिकैः शत्रिणः शैलपादै -
रुद्दामानः कपीन्द्रा रजनिचरपुरीमुत्तरेण प्लवन्ते ॥ ८ ॥
जलमध्ये रुद्रपादाद्रिशिखरगतो रामरावणयो-
युद्धं निरीक्ष्यमाणो रुद्रः कपिभटैः संवेष्टितां
लंकां विलोक्य ॥
 
मरुद्रादित्यौ शतमुखमुखास्ते ऋतुभुजः
पुरद्वारे यस्याः सभयमुपसर्पन्त्यनुदिनम् ।
प्रकोपव्याधेर्याधरतटपुटैर्वानरभटैः-
समाक्रान्ता सेयं शिव शिव दशग्रीवनगरी ॥ ९ ॥
 
१८९
 
उद्यदिति । ते कपीन्द्राः उत्तरेण उत्तरमार्गेण प्लवन्ते निरुन्धन्ति उत्कृत्यारोहन्ति
वा उद्दामान: उच्छृङ्खलाः अक्ष्णां ताराभिरुद्दीप्यमानं दशग्रीवम् । किंभूता भिः
रावणभङ्गदर्शनायोद्यन्तो ये दिक्पालास्तेपां कोलाहलाज्जातो यो बहल: मदः बहुत-
रगन्धस्तस्यावग्रहो विरोधस्तेनोग्राभिः । देवदर्शनादेवादैन्यसंदेशिनीभिरित्यर्थः । एते
वानराः शस्त्रिणः शस्त्रवन्तः ॥ ८ ॥ ९ ॥
 
अस्रं यत्वगाधिपेन विहितं पौलस्त्यवक्षस्तटे
संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः ।
उत्पाव्य प्रहिताः स्वशैलशिखरे लंकेन्द्रहस्तावली -
पिष्टोऽयं निजकुण्ड निर्झरजलैर्जम्बालपिण्डायते ॥ १० ॥
भस्मीभवन्ति । तद्धेतुमाह - किंभूता
 
अस्त्रमिति । भूमीरुहाः वृक्षाः सीदन्ति
 
भूमीरुहा: । पौलस्त्यो रावणस्तस्य वक्षस्तट संघट्टो मेलनं तज्जातो योऽनल से