This page has not been fully proofread.

[ अङ्क;-
१८८
 
हनुमन्नाटकं -
 
कर्माण्युयानभङ्गे जलनिधितरण यो न जातस्तदानीं
सोऽयं नष्टे कुले स्मिन्कथमिव गमितो जायते ते विवेकः ॥ ५॥
अयीति । खरेत्युपलक्षणम् । अर्थात्खर त्रिशिरोदूषणानां, सुतोऽक्षः यो विवेकः '
स्वर्ग यामि सीतां ददामीति वा तदानीं भगिन्यादिहननश्रवणेन जातो यो विवेकः
गमितो नष्टोपि कथमिव जायते कथं जात इति लोकोक्तिः ॥ ५ ॥
 
रावणः- ( सापत्रपं साभ्यसूयम् )
 
धिग्धिक्शक जितं प्रबोधितवता किं कुम्भकर्णेन वा-
स्वर्गग्रामठिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः ।
धिक्कारो ह्ययमेव मे यदरयस्तत्राप्य सौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसभाञ्जीवत्यही रावणः ॥ ६ ॥
 
धिगिति । स्वर्गग्रामठिका स्वर्ग एव ग्रामस्तन्त्र विलुण्ठनं रत्नसंचयस्तस्य लुण्ठनं,
प्रसह्याहरणं तत्र परैस्तत्करैः 'विलुण्ठं रत्नसंचयः' इति विश्वः । मे रावणाय अयं
धिक्कार: । यतः पूर्व तु अरय एव, तन्त्राप्यरिषु तापसोयं, सोपि तापसमात्रोपि
अत्रैव मत्समीप एव, तत्रापि राक्षसभटान्कुम्भकर्णमेघनादादीन, जीवंति अयमेव
धिक्कारः ॥ ६ ॥
 
मन्दोदरी - ( सकरुणम् )
 
शोकं लंकेश मागाः कुरु चिरमपुनर्मा विगूढोपगूढं
देवाज्ञां देहि योद्धुं समरमवतराम्यस्मि सुक्षत्रिया यत् ॥
रावणो विदीर्यमाणहृदयः -
 
मैंव कान्ते स्वकान्ते तरुणय करुणां प्राणरङ्कः किमेको
लंकां सन्त्यज्य शंकां शिव शिव समरायोद्यतो राक्षसेन्द्रः ॥ ७ ॥
शौकमिति । गाढोपगूढं गाढालिङ्गनं, हे कान्ते, मयि करुणां दैन्यं मा तरुणय
मा दीपय । यः एकः निरतिशयवीरोहं प्राणरङ्कः प्राणलुब्धः किं नेत्याह राक्षसेन्द्रः
इत्युक्त्वा इति शेषः ।ङ्क संत्यज्य भयमपि संत्यज्य समरायोद्यतोभूत् । यद्वा
शास्यामस्तीति शङ्का तां शङ्कावती लङ्कामिति वा ॥ ७ ॥