This page has not been fully proofread.

१४. ] '
 
दीपिकाख्यव्याख्योपेतम् ।
 
लंकाशिखरस्थो रावणः-
अये लोहिताक्ष ! .
कोसौ दाशरथेर्ध्वजे वर्तते ॥
 
}
 
लोहिताक्षः-
देव !
हेलोलंघितवारिधिर्जनकजाविश्लेषशुष्यन्मनः-
कौसल्यासुतदैन्यपाटन पटुर्यस्त शुभूमण्डलः ।
निर्दग्धाखिलराक्षसेन्द्रनगरः सौमित्रिसंजीवना-
योत्खातौषधिपर्वतश्च मरुतः पुत्रो ध्वजे वर्तते ॥ ३ ॥
 
हेलोल्लंधितेति । जनकजाविलेपशुष्यन्मनो यस्य स चासौ, कौसल्यासुतश्चेति ।
तस्य दैन्यपाटने दूरीकरणे पटुर्विदग्धः । सुबोधम् ॥ ३॥
 
:
 
रावणः-
( सत्वरं मन्दोदरी मन्दिरं प्रविश्य ) अयि मन्दोदार !
रामाय प्रतिपक्षवृक्षशिखिने दास्यामि वा मैथिलीं
युद्धे राघवसायकैर्विनिहतः स्वर्गे गमिष्यामि वा ।
नीतिज्ञे कथयस्व देवि कतमः पक्षो गृहीतस्त्वया
सुश्राव्यं पदमस्मदीयमगमन्मन्मात्रशेषं बलम् ॥ ४ ॥
रामायेति । हे नीतिज्ञे कार्याकार्यविदग्धे, प्रतिपक्षाः शत्रव एव वृक्षास्तेषां दाहा
शिखिनेग्निरूपाय कतमं सीतादानं स्वर्गप्रापणं वा पदं स्वकीयबुद्धिस्थानं सुश्राव्यम्
स्वकीयः सिद्धान्तः सुश्राव्य इति 'पदं निर्णयलोकयोः' इति हैमी । चलं सैन्यमग-
मत् व्यतीतम् । किंभूतं वलम् । मन्मानशेषम् । अमेक उर्वरिति इति भावः ॥४॥
मन्दोदरी - ( विहस्य )
 
-
 
-
 
W
 
१८७
 
अयि प्राणनाथ लंकेश्वर !
 
दृष्ट्वा दैन्यं भगिन्याः श्रुतखर निधनं मातुलस्यापि नाशं
तालानां भेदनं यत्कपिवरदहनं बद्ध सुग्रीवसख्यम् ।