This page has not been fully proofread.

१८६
 
हनुमन्नाटकं.
 
इति स्मारस्मारं त्वदरिनगरीभित्तिलिखितं
हनूमन्तं दन्तैर्देशति कुपितो राक्षसगणः ॥ १ ॥
 
अधाक्षीदिति । अधाक्षीददीदहत् । विशल्यां शल्यनिवर्तिकाम् । स्मारं स्मारं
स्मृत्वा स्मृत्वा 'भयहेतौ द्वे वाच्ये' । सुवोधम् ॥ १ ॥
 
रामः ( विहस्य ) किमर्थमागतोऽसि ।
लोहिताक्षः-
देव भृगुपतिं निर्जित्य गृहीतं हरप्रसादपरशुं
 
[अङ्क:-
रावणाय प्रयच्छ ततस्तव सीतां समर्पयिष्यति लंकेश्वरः ॥
रामः ( विहस्य ) दूत पश्य ।
पौलस्त्यप्रणयेन तावकमतिं स्मृत्वा मनो मोदते
देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति ।
यद्वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही
तुभ्यं ब्रूहि रसातलं बलभिदे निर्जित्य किं दीयताम् ॥ २ ॥
 
पौलस्त्येति । हे दूत, स रावणः मम गिरा मदीयवचनेनैव त्वया इति वाच्यः ।
इति किम् । हे पौलस्त्य, तावकमतिं त्वदीयां बुद्धिं स्मृत्वा विचार्य मनो मोदते ।
परंतु प्रणयेन प्रीत्या हरप्रसादपरशुर्न देयः । तेन दत्तेन परशुना स रावणोऽधिकं
यथा स्यात्तथा ताम्यति ग्लानिमायाति । यद्वा एकपदं पौलस्त्येनास्मासु प्रणयः कृत-
स्तेन तावकमतिं त्वदीयां बुद्धिं रावणंस्त्वमपि मूर्ख इति भावः । अन्यद्देहीति
चेत्तत्राह-मही द्विजेभ्यो दत्ता, तुभ्यं रसातलं दत्तं, ब्रूहि त्वमेव कथय, भवन्तं
निर्जित्य वलभिदे कथं दीयतामिति । अयमर्थः । पूर्व तु परशुरदेयः रावणाय चेद्दीयते.
तर्हि तस्यातिकोप: स्यात्तथापि दीयते, परं त्वेष इन्द्राय रक्षितः पृथ्वीरसातलाभावे
तस्य देयत्वाभावात् ॥ २ ॥
 

 
अथ देवराज इन्द्रः रामाय शत्रुंजयं रथवरं वितरतिस्म ।
रामोपि हनूमन्तं रथध्वजाग्रमारोप्य स्वयं रथारोहणं नाट-
यति तथाविधं तमालोक्य लोहिताक्षो निष्क्रान्तः ॥
 
-