This page has not been fully proofread.

दीपिकाख्यव्याख्योपैतम् ।
 

 
लक्ष्मण:- आर्य ।
ईषन्मात्रमहं वेद्मि स्फुटं यो वेत्ति राघवः ।
वेदना राघवेन्द्रस्य केवलं व्रणिनो वयम् ॥ ३८ ॥
इति श्रीहनुमन्नाटके लक्ष्मणशक्तिभेदो नाम त्रयोदशोऽङ्कः ॥ १३॥
 
ईपदिति । ईपदल्पाथ वेदनां च स्फुटयति । वेदना दुःखं राघवेन्द्रस्य तव । वयं
केवलं व्रणिनः इति । वयमित्यानन्दादुन्मादः ॥ ३८ ॥
 
इति श्रीमन्महानाटके हनूमद्विरचिते श्री मिश्रमोहनदासविरचितायां दीपिकायां
लक्ष्मणशक्तिभेदो नाम त्रयोदशोऽङ्कः समाप्तः ॥ १३ ॥
 
१४. ]
 
चतुर्दशोऽङ्कः ॥
 
ततः प्रातःकाले रावणो लोहिताक्षं दूतमाहूय समादिशति ।
रे लोहिताक्ष वानरवाहिनीं गत्वा राममिति ब्रूहि ।
अये राम जामदस्यं निर्जित्य यस्त्वया
हरप्रसादपरशुर्गृहीतस्तं रावणाय प्रयच्छ
ततस्तव सीतां प्रयच्छामि ।
 
लोहिताक्ष:-
यदाज्ञापयति देवः । ( इति गगन मुत्पत्य
रामशिबिरे ततो रामं नमस्कृत्योपस्थितः । )
रामस्तं रावणदूतं ज्ञात्वा पृच्छति अये लोहिताक्ष ! किं
करोति राक्षसगणः ।
 
१८५
 
लोहिताक्षः-देव!
 
अंधाक्षीनो लंकामयमयमुदन्वन्तमतर-
द्विशल्यां सौमित्रेरयमुपनिनायौषधिवराम् ॥