This page has not been fully proofread.

हनुमन्नाटकं -
 
रामः एकैकस्योपकारस्य प्राणान्दास्यामि ते कंपे ।
प्रत्यक्षं क्रियमाणस्य शेषस्य ऋणिनो वयम् ॥ ३५ ॥
 

 
supost
 
एकैकस्येति । हे कपे हे हनुमन, प्रत्यक्षं क्रियमाणस्य लक्ष्मणविशल्यकरणस्यो-
पकारस्य ते तुभ्यं प्राणान्दास्यामि ते त्वया क्रियमाणस्य वा दत्तेपु प्राणेषु पुनस्तद्-
भावाच्छेषस्यैकस्यैव समुद्रलंघनादिरूपस्योपकारस्य वयं ऋणिन एव 'ऋत्यक' इति
संध्यभावः ॥ ३५ ॥
 
( सदयम् )
 
अङ्गेष्वेव जरां यातु यत्त्वयोपकृतं कपे ।
भवान्प्रत्युपकारार्थमापत्सु लभतां पदम् ॥ ३६ ॥
 
1
 
अङ्गेष्विति । मदङ्गेष्वेव उपकारहेतुरापदस्ति सा तव मास्त्वित्याशी:
उपकारः ॥ ३६॥
 
लक्ष्मणः-
[ अङ्कः-
Syami
 
आलेपितो हनुमता गिरिजौषधीभि
र्मूर्च्छा विहाय सशरं धनुराददानः ।
रामारविन्दतरणिर्धरणीधरात्मा
लंकापतेः कुपितकाल इवोपतस्थौ ॥ ३७ ॥
 
आलेपित इति । धरणीधरः शेपस्तदवतारः । अन्यत्सुगमम् ॥ ३७ ॥
 
क्रोधारु॑णः प्रोत्फुलत्खदिराङ्गारनेत्रो रामः धनुर्गुणट-
णत्कारमभिनीय (सहर्ष सबाप्पं सपुलकं च लक्ष्मणं
गाढमालिंग्य ) हा लक्ष्मण प्रौढशक्तिभेदखेदं जहि
मम हृदयपर्यते, हा मेघनादकुलकमलिनीशालेयवर्ष
वत्स एतावतीं वेदनां न वेत्सि ॥