This page has not been fully proofread.

१३. ]
 
दीपिकाख्यव्याख्यापेतम् ।
 
.१८६
 
प्रवलं यथा स्यात्तथा रावणप्रहितान्राक्षसान्समुद्रोपकण्ठं मर्दयित्वा पुनरिन्द्रेण
तद्लजिज्ञासया प्रहितां गन्धर्वाणां कोटिं झटिति जित्वा तत्पुरस्ताद्रामा तरय
शीघ्रं चलेन वा ॥ ३२ ॥
 
• रामसुग्रीवादयः सर्वे (सहर्षम् )
यो मैन्द द्विविदादिवानरचमूचक्रस्य रक्षाकरः
सहर्ता रणभङ्ग
भैरवरवोल्टासस्य लंकापतेः ।
सीतात कमहान्धकारहरण प्रयोतनोऽयं हरिः
संप्राप्तः पवनात्मजः पटुमहः श्रीकण्ठवैकुण्ठयोः ॥ ३३
 
य इति । रावणस्य रणरङ्गे यो भैरवो रवः परत्रासनशब्दस्तेन य उल्लास आन-
न्दस्तस्य संहर्ता श्रीकण्ठो रुद्रः वैकुण्ठो रामस्तयोः पटुरधिको महः आनन्दो यस्मह
त्तदंशतद्भकत्वात् 'मह उद्धव उत्सवः' इत्यमरः । सुगमम् ॥ ३३ ॥
 
.
 
कपिकटकभटानां गण्डगोपालनामा
 
समरशिरसि धीरो योञ्जनायास्तनूजः ।
दिशतु विशदलक्ष्मीं लक्ष्मणस्यात्मनः श्री-
चरणनलिननत्या नित्यसत्योदयश्रीः ॥ ३४ ॥
 
कपीति । अथ वानराः लक्ष्मणमङ्गलमाशंसन्तः गण्डगोपालनामा हनूमाँडम-
णस्य विशदलक्ष्मी मूर्च्छाहरणरूपां दिशतु ओषध्यानयनेन प्रयच्छतु । गण्डात्कपो-
लमध्यात् गोपं सूर्य लाति गृहातीति गण्डगोपालः । गावः किरणान्पातीति गोपः।
यद्वा गाव: जलानि पिवतीति 'सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः' इत्युक्तत्वात् ।
अत्रेयं कथा-वालेन हनूमता फलभ्रमादज्ञाय रविमण्डलं ग्रस्तं पुनर्ब्रह्मणे प्रत्यर्पितम् ।
उक्तमपि भैरवसहस्रनामस्तोत्रे । 'महेशो गण्डगोपालो खट्टाङ्गी गीतनायक:
इत्यादि । सकः । य आत्मनो रामस्य श्रीमञ्चरणनमस्कारेण नित्यसत्योदयश्रो.
प्रकाशक : सत्यप्रतिज्ञ इति । कपिकटकभटानां मध्ये यः समरंशिरसि धीरः । यहा
अयमर्थः गण्डगोपालनामा कपिकटकभटानां विशदुलक्ष्मीं दिशतु सत्पुत्रेणैके-
न तजातीयाः लाष्यन्त इति ध्वनिः । लक्ष्मणस्यात्मनो भ्रातुः रामस्य चरणादिकं
पूर्ववत् ॥ ३४ ॥