This page has not been fully proofread.

१८२
 
हनुमन्नाटकं -
 
हनुमान-
उत्तीर्य बाणात्कुशलं गृहीत्वा सम्पूज्य बाहुं भरतस्य वाग्भिः ।
मनो दरिद्रस्य यथा दिगन्तं तथा हनुमाञ्छिबिरं जगाम ॥३०॥
 
श्रुत्वेति । शराने साद्रिं कपिं समधिरोप्य तं शरं गुणे नियोज्य मोकुं त्यक्तं
झटिति शीघ्रं धनुः कुण्डलिनं कुण्डलपर्यन्ताकृष्टं चकारेत्यर्थः । यदा धनुः
कुण्डलीकृतं तदा परमनिस्मयमागतः । स हनूमान् भरतं तुष्टाव साधुसाध्विति
 
शशंस ॥ २९ ॥ ३० ॥
 
अद्रिं रुद्रावतारः प्रलयसमुदितद्वादशार्कानुकारं
द्रोणें दोष्णा दधानः कटक निकटतामागतोऽप्यर्धरात्रे ।
दिग्भागोतालदृष्टिस्तरलतरसरस्तीरमास्थाय वीर-
स्तारं धीमानरोदीत्तदनु सह मुदा वाहिनीमाजगाम ॥ ३१ ॥
तरसा रामकटकं जगामेति भावः । दिगिति । दिग्भागे पूर्व दिक्प्रदेशे उत्ताला
दृष्टिर्यस्य सूर्योदय भ्रमवशात् । एतेन जवित्वं धांतितम् ॥ ३१ ॥
 
( पर्वतोयोतनेन सूर्योदयश्रमात् सरोवरस्थं विकसित-
कमलमालोक्य प्रातराशङ्ख्या लज्जावानरोदीत् । तदनु
दिग्भागानवलोक्य सूर्योदयमपश्यन्मुदं प्राप्य हा ज्ञातं
पर्वतोयोतनेन सूर्योदयभ्रमात्कमलविकास इति हर्षेण.
• सह स्ववाहिनीं जगाम
 
हत्वा मायामहर्षीन्रजनिचरवरां कन्धकालीमुदग्रां
ग्राहीरूपां प्रमथ्य, प्रबलमथ बलं राक्षसान्मर्दयित्वा ।
जित्वा गन्धर्वकोटिं झटिति ततमणिज्वालमादाय शैलं
प्राप्तः श्रीमान्हनूमान्पुनरपि तरसा नन्दितस्तत्पुरस्तात् ॥ ३२॥
सिंहावलोकनन्यायेनास्य गमनमादित आह-हत्वेति । द्रोणाद्रिसमीपे माया-
मुनीन्राक्षसान्नाम्ना कंधकालीं रजनिचरवरां ग्राहीरूपां सरसि मकरीरूपधारिणीं
 
[ अङ्कः-