This page has not been fully proofread.

१३.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
)
 
हनुमान (साभ्यसूयम्
जिज्ञासया भरतबाहुपराक्रमस्य
रामस्तु तस्य युधि लक्ष्मणशक्तिभेदे ।
 
श्रान्तोऽहमित्यथ गिरिं नय तं कुमार.
वाक्यं जगाद हनुमान्भरतं सरोषः ॥ २७ ॥
( भरतः रामलक्ष्मणयोः समरसंकटमुपलभ्य गगन-
मण्डलभान्तनिजभुजाटोपनाय दोधूयमानधनुर्गुण-
टणत्कारमभिनीय )
 
-
 
१८१
 
(अत्रान्तरे स्वकटके )-रामः-
वत्सोत्तिष्ठ धनुर्गृहाण रिपवः सैन्यं विनिघ्नन्ति नः
किं शेषेऽय निर/कृताः किमरयः प्रत्याहृता वा प्रिया ।
भातर्देहि वचो बिभेति हृदयं भातः प्रिये छिन्धि मां.
कैकेयि प्रियसाहसे सुतवधान्मातः कृतार्था भव ॥ २८ ॥
 
1
 
जिज्ञासेति । गोपायतीह भरतस्तु ममानुजः किमिति रामेण स्तुतस्य हनुमान
भरतमिति जगाद । इति किम् । हे भरत, अहं श्रान्तोस्मि त्वं गिरि नय प्रापथ ।
ननु गिरित्रापणमेव किमुक्तं नान्यच्छौर्य तत्राह- कुमारं सुकुमारं इति भारवाहकत्वा
योगात् ॥ २७ ॥ २८ ॥
 
तत्रैव-श्रुत्वेति तस्य वचनं भरतः शराये
साहिं कपि समधिरोप्य गुणे नियुज्य ।
मोक्तुं दधे झटिति कुंडलिनं चकार
तुष्टाव तं परमविस्मयमागतः सः ॥ २९ ॥