2023-03-19 23:53:39 by ambuda-bot
This page has not been fully proofread.
हनुमन्नाटकं -
[ अङ्कः-
हुत्वेति । श्रीखण्डं काण्डं चन्दनखण्डं नारिकेलमेव पूर्णाहुतिं जुहाव हुतवान् ।
तत्र पूर्णाहुत्यवसरे आञ्जनेयः प्राप्तः । सः भरतः तं हनूमन्तं इति शरेण ताडयामास ।
इति किम् । अयं स किं इति वाक्यस्यायमर्थः । येन कालरूपेण सुमित्रायाः
मातुर्वामो भुज: समूलः कवलीकृतः सोऽयं किम् । अथवा यज्ञहन्तारं घण्टासुरं
प्रलयकालानलप्रख्यं भगवान् मुनिर्वसिष्ठो व्याचष्टे सौयं किमिति भ्रान्त्या भरतस्तं
हनूमन्तं शरेणाजघान ।॥ २४ ॥
( तदा भरतवाणेन भिन्नो हनूमान् भरतदोईण्डमुक्त काण्ड -
प्रचण्डप्रहारमूच्छितविधिलिखिताक्षरपंक्तिलोपात्प्राणान्प-
रित्यक्कुमिच्छन् )
पुंखावशेष भरतेषुललाटपट्टो
हा राम लक्ष्मण कुतोहमिति बुवाणः ।
संमूच्छितो भुवि पपात गिरिं दधानो-
लांगूलशेखररुहेण सकेसरेण ॥ २५ ॥
अयं चिरजीवीति विधिलिखिताक्षरपंक्तिः । पुंखेति । पुंखावशेष: यो भरतेषुर्वाण :
तधुक्तो ललाटपट्टो यस्य सः हनुमान्केसरेण गिरिं दधानः भुवि पपात । किंभूतेन
केसरेण । लांगूलस्य शेखरोऽग्रभागस्तत्रभवेन ॥ २५ ॥
तत्र वशिष्ठभरतादयः सर्वे ( सविस्मयम् )
सर्वे निशम्य सहलक्ष्मणरामनाम
तत्रोपगम्य हनुमत्पदयोर्निपेतुः ।
वृत्तं च तस्य वचनादपनीय शल्यं
मूर्च्छा जहार स मुनिर्गिरिजौषधीभिः ॥ २६ ॥
सर्वे इति । लक्ष्मणेन सहितं सलक्ष्मणं चेदं रामनाम निशम्य तस्य हनूमतो
वचनात् वृत्तं सीताहरण सेतुबन्धनलक्ष्मणशक्तिपाताद्यौपधिप्रयाणरूपमुपगम्य ज्ञात्वा
शल्यं ललाटस्थवाणमपनीयोद्धृत्य मुनिर्वसिष्ठो मूर्च्छा हनूमतो जहार ॥ २६ ॥