This page has not been fully proofread.

१३.]
 
दीपिकाख्यव्यारव्योपेतम् ।
 
अथ तत्प्रयाणानन्तरं लक्ष्मणस्य जननी इति स्वप्रमुपलभ्य दृष्ट्वा उत्तस्थुषी उत्थित-
वती । इति किम् । व्यालः सर्पः समूलं वामं भुजं कवलयति ॥ २१ ॥
 
प्रोवाच कोसलसुतापुरतोद्भुतं सा
स्वमं च सा मुनिवशिष्ठपुगे
हितस्य ।
पार्श्वे नियोज्य सशरं धनुरादधानं
शान्ति चकार भरतं मुनिराज्यहोमैः ॥ २२ ॥
 
प्रेति । सा सुमित्रा सा कौशल्या मुनिः स्वप्नज्ञानवान्स चासौ वसिष्ठः पुरो-
हितःच मुनिर्वसिष्ठः ॥ २२ ॥
 
( तत्र द्रोणाद्रि शिखरे ) हनूमान्--
दृष्ट्वा सर्वास्तुहिनकिरणोयत्प्रभास्तत्र शैले
वल्लीरत्नान्य मरखदिराङ्कारभास्वन्ति वीरः ।
भान्त्वा दो गिरिमुदहरन्नोत्तपातैष तातं
सस्मारायं द्रुतमुपगतस्तद्द लेनोज्जहार ॥ २३ ॥
 
द्रोणो नाम्ना द्रुहिणगिरिरिति ब्रह्मणो गिरिरिति ज्ञेयम् । दृष्ट्वेति । तत्र शैले सर्वा
वल्ली: रत्नानि दृष्ट्वा । किंभूता वल्लो: । तुहिनकिरणश्चन्द्रस्तद्वत् उद्यन्ती भा यासां
ताः । एतेन सर्वासां साम्यमुक्तम् । किंभूतानि रत्नानि । अमलेत्यादि । तद्ज्ञाने
भ्रान्त्वा तदन्वेपणाय भ्रमित्वा दोयो गिरिमेवोदहरत् । यड़ा एप गिरिः नोत्पपात
नोन्मूलितवांस्तदा स हनुमान् तातं वायुं सस्मार । अयं वायुः द्रुतमुपगतः तदा
तद्द्वलेन सह तं गिरिं हनुमान् उज्जहारत्यर्थः ॥ २३ ॥
 
तत्रायोध्यायां शान्तिमण्डपे कुण्डसमीपस्थौ भरतवशिष्ठौ -
हुत्वा श्रीखण्डकाण्डं सतगरकुसुमं पुण्डरीकं मृणालं
कर्पूरोशीरगर्भ प्रचुरघृतयुतं नारिकेलं जुहाव ।
तूर्ण पूर्णाहुतिं स ज्वलदनलनिभं शैलमादाय वीरः
प्राप्तस्तत्राञ्जनेयः स किमिति भरतस्तं शरेणा जवान ॥ २४ ॥