2023-03-19 23:53:39 by ambuda-bot
This page has not been fully proofread.
1.06
'हनुमन्नाटकं -
[ अङ्क:-
नल इति । ' त्रिरात्र्यवच्छिन्नं फालं एकरात्रमहोरात्रमिति ज्ञेयम् । सर्व-
जनम् ॥ १९ ॥
.
( रामः समयम् - आर्तः संकुचितमुखकमलः समरसंकटे
भगवतो रुद्रावतारस्य मारुतेः साशंकमुखकमलविकाशं पश्यति ।)
हनूमान् ( सत्वरं सकरुणं गारुड़स्थानमास्थायाञ्जलिपुटमभिनीय )
देव क्षणं स्तम्भ्यतामात्मा यावदेनं भिषक्चक्र - -
चूडामणिं लंकां प्रवेश्यागच्छामि ॥ ( तथा कृत्वा )
नीत्वा लंकां सुषेणं पुनरनिलसुतः प्रार्थयामास रामं
देवाज्ञां देहि वीरास्तव हितकरणोपस्थिताः सन्ति सर्वे ।
लक्षाणां षष्टिरास्ते द्रुहिणगिरिरितो योजनानां हनूमां-
स्तैलाग्नेः सर्षपस्य स्फुटनरवपरस्तत्र गत्वात्र चैमि ॥ २० ॥
तत्रात्मजवेनोत्तार्य वक्तुं तद्देशाबंधिमाह - नीत्वेति । इतः स्थानात् द्रुहिणगिरियों-
जनानां लक्षाणां पष्टिः षष्टिलक्षयोजनपारेमितोऽस्तोत्यर्थः । अतिदूरश्रवणात् विचि-
कित्सन्तं प्रत्याह । अहं तत्र गिरौ गत्वा यामि आगच्छामि । ननु कदागच्छसी-
'त्यत आह - किंविशिष्टः तैलाग्नेपिवर्तिज्वालायाः सकाशात् सर्पपस्य गौरराजिकाया
स्फुटनं स एव परः अवधिर्यस्य यावद्दीप्तानौ सर्वपः स्फुति तावद्गत्वाऽऽगच्छामीति
खात्पर्यम् ॥ २० ॥
रामः-
( सहर्षम् ) तथा करोतु वीरः ! हनूमान् -
ध्यात्वात्मानं प्रणम्य प्रभुमवनिसुतावल्लभं तस्य वाक्यं
नीत्वाऽयोध्यां गमिष्यस्यखिलकुशलतामान
यिष्यस्यपीति ।
चंडोड्डीनं चकार द्रुतमथ जननी लक्ष्मणस्योपलभ्य
स्वमे व्यालः समूलं कवलपति भुजं वाममुत्तस्थुषीति ॥२१॥
ध्यात्वेति । आत्मानं वायुरूपिणं रुद्ररूपं वा तस्य रामस्य वाक्यमिति संदेश
जीत्या । इति किम् । अयोध्यामित्यादि । अखिलकुशलतां समस्तस्वकीय कुशलताम् ।