This page has not been fully proofread.

S
 
दीपिकाख्यव्याख्योपेतम् ।
 
१७७
 
पातालत इति । किमत्र वितर्फे । अहं उद्दण्डो रावणः उद्धृतो दण्डो यस्य एकं
वा पदम् । कीनाशो यमः ॥ १६ ॥
 
रामः- ( आत्मगतम्)
 
ययदुक्तमनेन महाषीरेण तत्तदिदानीमेव कृत्वा
दर्शयति परन्तु तत्करणादकालेपि महाप्रलयः स्यात् ।
( इति विचार्य प्रत्याह ) -
वैयं सुषेणमधुनैव तदानय त्वं
लंकापतेरनुचरोपि यतो भिषक्सः ।
नैवान्यथा वदति रामगिरा हनूमान्य-
र्य्यसुतमचिरेण तमानिनाय ॥ १७ ॥
 
वैद्यमिति । तत्तस्माद्द्यैव रात्रावेव सुपेणारख्यं वैद्यमानय । ननु वैरिभृत्यः कथ-
मनीयतामत आह यतोऽसौ भिपग्वैद्यः शत्रोरप्यन्यथा न वदति इति रामगिरा
पर्यङ्कसहितमेव शीघ्रमानीतवान् ॥ १७ ॥
सुप्तोत्थितं रघुपतिर्भिषजां वरिष्टं
पप्रच्छ तं सकरुणं तरुणोपचारम् ।
स व्याजहार हिमरश्मिरुचा रजन्यां
जीवत्यसौ द्रुहिणशैल विशल्यवल्ल्या ॥ १८ ॥
 
सुप्तेति । तरुणोपचारं शीघ्रविशल्य करणीनामवल्या । सः वैद्यः रजन्यामेव न
तु दिवा, तत्रापि हिमरश्मिरुचैव न तमसि, तत्रापि द्रुहिणशैले या विशल्यवल्ली
तथैव नान्यथा जीवति ॥ १८ ॥
 
Ma
 
तत्र रामेणाहूता वानरभटा द्रुहिणाद्रिगमनाय
रामपुरतः स्वस्वपराक्रमानुरूपं समयावधिमूचुः ।
नलस्त्रिरात्रं पुनरेति गत्वा तत्रैव मैन्दद्विविदौ द्विरात्रम् ।
सुग्रीवनीलौ पुनरेकरात्रं वीरोऽङ्गदो यामचतुष्टयेन ॥ १९ ॥