This page has not been fully proofread.

१७६
 
[ अङ्कः-
हनुमन्नाटकं -
 
दैवादप्युत्तमानां परिहरति यदा दुर्जनो वा कदाचि-
न्मानं नामोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् ।
स्वर्भानुर्भानवीयान्हरति यदि पुनः शीतर श्मिर्मरीची-
न्ब्रह्माण्डस्येह खण्डे तदपि रघुपते किं ग्रहेशत्वमेति॥१४॥
 
दैवादिति । अत्र निषेधे वाशब्दः पूर्वे तु सतां मानः अनाहार्य एव यदा यदि
तत्रापि क्वचिदेकवारं नासकृत्, तत्रापि दैवात्, तत्रापि दुर्जन उत्तमानां मानसपह-
रति तदा तेपां सतामनुजन्मानोऽनुक्षणं पश्चाज्जनिता उत्पादिता गुणास्तानेव नाप्नोति
यत्तेष्वधिकं हेयोपादेयतया गृहीतं गुणं कुत्र कुतः प्राप्नोति न कुतोपि । तत्र दृष्टा-
तमाह - यदि स्वर्भानु: राहुः भानवीयान्मरीचीञ्शीतरमेश्च हरति आच्छादयति
तर्हि इहापि ब्रह्माण्डस्य खण्डे रोदस्यां किं ग्रहेशत्वमेति नैतीत्यर्थः । एवं रावणेनापि
देवान्मान उन्मथितः तर्हि किं भवत्सादृश्यं गत इति भावः ॥ १४ ॥
 
--
 
रामः-
अये हनुमन् !
 
-
 
किं तया क्रियते वीर कालान्तरगतश्रिया ।
 
अरयो यां न पश्यन्ति बन्धुभिर्वा न भुज्यते ॥ १५ ॥
 
किं तयेति । कालान्तरगतश्रिया कालान्तरे गता श्रीस्तया ॥ १५ ॥
 
Y
 
हनुमान्-
( लक्ष्मणं विषमस्थितमवलोक्य लक्ष्मणवक्षो-
भिन्नं दृष्ट्वा ( सविस्मयो समम् ) हनुमति
कृतप्रतिज्ञे दैवमदैवं यमोऽप्ययमः । )
 
पुनर्देव ! पश्य -
 
पातालतः किमु सुधारसमानयामि
निष्पीड्य चन्द्रममृतं किमुताहरामि ।
उद्दण्डचण्ड किरणं ननु वाश्यामि
कीनाशपाशमनिशं किमु चूर्णयामि ॥ १६ ॥