This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
गोपायतीह भरतस्तु ममानुजः किं
यस्त्वामधिज्यधनुरुद्धतशक्तिपातात् ॥ ११ ॥
 
भुक्ते इति । कृतभोजने मयि जीवति त्वं प्राणा जहासि तत्किम् ? वितर्फे
वितर्कद्वयं द्योतयति । वनवासादिक्लेशभीतः सन्सुरलोकसुखाय अथवा सापन्नभवां
प्रकटीकरोषि किम् । अयमन्त्रासहायो नश्यत्विति सपत्नस्य शत्रोर्भावः सापत्नं तस्य
भावो विकासः सापत्नभावः ॥ १० ॥ ११ ॥
 
१३. ]
 
१७५
 
( अलमस्मथायौवनशस्त्रभरेणेति सशरं धनुस्त्यक्तुमिच्छति )
( हनूमान्निजापराधेन सकरुणं भरतबाहुवर्णनाक-
र्णनेन साभ्यसूर्य सत्वरं गारुडस्थानमभिनीय
रामपुरतः स्थित्वा )
 
देव ! पश्य-
सप्ताम्जोनिधयो दशैव च दिशः समैव गोत्राचला:
पृथ्व्यादीनि चतुर्दशैव भुवनान्येकं नभोमण्डलम् ।
एतावत्परिमाणमात्र कटके ब्रह्माण्डमाण्डोदरे
कासौ यास्यति राक्षसो रघुपते किं कार्मुकं त्यज्यते ॥ १२॥
रामः - भो मारुते तथापि मामुन्मथ्य जागर्ति लंकाभटः ॥
हनूमान् – देव ! पश्य, नीचैः सह मैत्री न कर्तव्या यतः-
खलः करोति दुर्वृत्तं नूनं पतति साधुषु ।
दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः ॥ १३ ॥
 
उत्प्लुत्य वन्दनं गारुडस्थानम् 'यदम्वरं समारुह्य विक्रमाविष्कृतौ स्फुटम् । दैन्य-
कोपातिशयतो वन्दनं गारुडं मतम्' इति । हैमो । सप्तेति । गोत्राचलाः भूविभाग-
गिरिवराः द्वोपपर्वता इति । एतावन्त एव परिमाणमात्रो यः कटको विस्तारो यस्य
तस्मिन्ब्रह्माण्डरूपभाण्डकोशे तन्त्र तावत्सप्ताब्धिगिरिद्वीपभुवनादीनां मात्रैव न त्वान-
न्त्यमिति भावः । 'विस्तारे कटकः पुमान्' इति धनंजयः ॥ १२ ॥ १३ ॥