This page has not been fully proofread.

१७४
 
हनुमन्नाटकं -
 
[ अङ्कः-
नैवेति । आर्येण भवता यथा पर: स्नेहः वायुसुते दर्शितस्तथा नान्येविति
किम् ॥ ७ ॥
 
जाम्बवान्-
भो राक्षसेन्द्र विभीषण !
तस्मिञ्जीवति दुर्धर्षे हतमप्यहतं बलम् ।
हनूमति गतप्राणे जीवन्तोपि हता वयम् ॥ ८ ॥ -
 
अद्य भूतरणे राज्यादिकं नापेक्ष्यं वलशौर्यादिकमेवापेक्ष्यमिति भावः । एतेन
हनूमतः शौर्यातिशयप्रश्नः ॥ ८ ॥
 
ततः सत्वरं जाम्बवता सह विभीषणः पृष्ठोपस्थितं
मारुतिं विलपन्तं रामचन्द्रमनुस्मरति ।-
रामः-
( विभीषणमवलोक्य )
 
गिरीन्यास्यन्त्यमी वीरास्त्वयि वत्स दिवं गते ।
मरिष्यामि ससीतोहं व यास्यति विभीषणः ॥ ९ ॥
गिरीनिति सुबोधम् ॥ ९॥
 
भुक्ते मयि प्रथममत्सि फलानि वत्स
सुप्ते करोषि शयनं मयि जीवति त्वम् ।
प्राणाञ्जहासि सुरलोकसुखाय किंवा
सापत्नभावमहह प्रकटीकरोषि ॥ १० ॥
( इति तारस्वरैः सर्वे रुदन्ति ) -
रामः-
Harding
 
हा वत्स लक्ष्मण धिगस्तु समीरसूनुं
यस्त्वां रणेपि परिहृत्य पराङ्मुखोऽभूत् ।