This page has not been fully proofread.

१२.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१७३
 
समुदिता ये वीरप्रौढाः शौर्यगवितास्तेषामुग्रतेजसां प्रलयायेत्यर्थः । देवदैत्येन्द्रकम्पं
यथा स्यात्तथा सकलजनभवं हाहाकारयुक्तं प्रलापं कारयन्ती । भुजगपतिपुरं कीट-
शम् । ब्रह्माद्यैः स्थिरो भवेत्यादिवाक्यैः स्तूयमानम् ॥ ४ ॥
 
( अत्रान्तरे स्थानान्तरादागत्य हनुमता)
पश्चात्तापगते विभीषणबले क्षीणे प्लवङ्गेश्वरे
मूढे जाम्बवनि प्लवङ्गमगणे संभूय भूयःस्थिते ।
शक्ति प्रौढ
महाप्रहार विधुरे मूर्च्छागते लक्ष्मणे .
 
हा रामे विलपत्यहो हनुमता प्रोक्तं स्थिरैः स्थीयताम् ॥ ५॥
 
7
 
प्रोक्तं रावणाहतलक्ष्मणाः वयं कथं व वा यास्याम इति पश्चात्तापः भूयः पुन -
रपि असंभूय अगोचरीभूय स्थिते सति अत्र वानरा एव न सन्तीत्येव स्थिते स्थिरैः
स्थीयतां धैर्यमवलम्च्य स्थीयताम् । अन्यत्सुवोधम् ॥ ५ ॥
 
अथ विभीषणः ।
 
रात्रौ ज्वलदुल्मुकं करे कृत्वा शिबिरं पटन
प्रौढशक्तिज्वालावलीकवलितान् वानरान् प
श्यति स्म को जीवति न वेति तत्र जांबवन्त -
मेवापश्यदुपविष्टं मूर्च्छारहितं नान्यम् ।
जाम्बवान (विभीषणं प्रति)
अञ्जनी सुप्रजा येन मातरिश्वा तु राक्षस ।
हनूमान्वानरश्रेष्ठः कामं जीवति वा न वा ॥ ६ ॥
अञ्जनीति । येन हनूमता अञ्जनी माता सुप्रजा सत्पुत्रवती । तु पुनः मातरिश्वा
बायु: सुप्रजा: सत्पुत्रवानिति योज्यम् । पुंस्त्वे विसर्गलोपः ॥ ६ ॥
 
विभीषणः-
नैव राजनि सुग्रीवे नैव रामे न चाङ्गन्दे ।
 
आर्येण दर्शितः स्नेहो यथा वायुसुते पुरः ॥ ७ ॥