This page has not been fully proofread.

१७२
 
हनुमन्नाटकं-
तस्थानान्तरं समरतः पवनस्य सूनुम् ।
लंकापतेर्हढचपेटभवत्प्रहारा -
 
ज्जग्राह रामरिपुरत्र विधेस्तु शक्तिम् ॥ २ ॥
 
नितरां हनिष्यति । आक्षिपति गुरोराक्षेपोहननातिरिक्त इत्युक्तत्वात् द्रागिति
द्राक् शीघ्रं भङ्गोत्रावमाननम् । कीदृशात् समरतः । लङ्कापतेर्हढाः करतलप्रहारा
व्यस्मिस्तस्मात्केनापि मिपेण स्थानान्तरं विधेर्ब्रह्मणः संबधिनी वा । अत्रेयं कथा-
तुष्टेन ब्रह्मणाऽस्मै शक्तिर्दृत्ता अनया मुक्तया मनुष्यवीरो नश्यतीति ॥ २ ॥
 
अङ्कः-
M
 
रावणः -
 
दृष्ट्वा शक्तिहणमधिकं राक्षसेन्द्रः कृतान्त-
क्रोधाश्रमातो ज्वलितहृदयाश्चिस्फुलिङ्गोग्रवेषः ।
तामेव स्म क्षिपति निधने लक्ष्मणस्योग्रमन्त्र-
भित्वा वक्षःस्थलमपि गता भूतलं कूर्मराजम् ॥ ३ ॥
 
दृष्टेति । रावणः राक्षसेन्द्रोऽधिकं यथा स्यात्तथा कृतान्तस्यैव क्रोधस्तेनाध्मातो
भर्जितश्चासौ ज्वलितो हृदयाग्निश्च तस्य स्फुलिङ्गास्तत्सदृशैर्नेनादिभिरुचो वेषो
-यस्य एवंभूतो यातः । किं कृत्वा । हनुमता कृतं स्वशक्तिग्रहणं दृष्ट्वा अत एवो-
ग्रमन्त्रैः कृत्वा लक्ष्मणनिधने तन्निधननिमित्तं शक्तिं क्षिपति स्म । शक्तिमिति
शेपः । सापि लक्ष्मणवक्षःस्थलं भित्त्वा भूतलं प्रति कूर्मराजं गता । बिभेदेत्यर्थः ।
भूतलभेदनेन कूर्मराजस्य चरमतया कर्मभेदनमाक्षिप्यते न तु वास्तवमिंति
 
भावः ॥ ३ ॥
 
शक्तिः प्रौढोग्रतेजःप्रलयसमुदिताद्रावणात्कोपमाना-
गर्जन्ती दीपयन्ती ज्वलितदशदिशो लक्ष्मणं वेधयन्ती ।
हाहाकारमलापं सकलजनभवं देवदैत्येन्द्रकम्पं
ब्रह्माद्यैः स्तूयमाना भुजगपतिपुरं कारयन्ती जगाम ॥ ४ ॥
तमेव भेदेन प्रकारं विवृणोति - शक्तिरिति । कोपमानाद्रावणात्सकाशाद्भुजगपति-
'पुरं जगामेत्यन्वयः । किंभूता । प्रौढानि यान्युग्राणि तेजांसि तैः प्राय वर