2023-03-19 23:53:07 by ambuda-bot
This page has not been fully proofread.
हनुमन्नाटकं -
[ अङ्क:-
संज्ञया सूचनेनान्तरिता स्वस्मिन्विज्ञापिता पृथ्वीचक्रस्य विजयस्य प्रशस्तिये॑न सः ।
' नामसूचनयोः संज्ञा' इति विश्वः । वक्षःपीठे पृषत्कान्वाणान् संक्ष्णुवानस्तीक्ष्णी-
कुर्वाणः । घनानि यान्यस्त्राणि तेषां व्रणैः यः किण: मांसासृग्विवर्तः तेन कठिने ।
'मांसासृग्भरणं किणः' इति धरणिः । राजन्यगोष्टयः क्षत्रियसमूहा एव वनगजा-
स्तद्धननार्थ या मृगया तस्यां कौतुकमस्यास्तीति ॥ ३१ ॥
सोऽयं सप्तसमुद्रमुद्रित
महीपस्यार्जुनस्योद्धतं
छित्त्वा भैरवसंगरेऽतिजरठं कण्ठं कुठारेण यः ।
रेवातीरनिरोधहेतुगहनं बाहोः सहस्रं जवा -
काण्डं काण्डमखण्डयत्तृिवधामर्षेण वर्षीयसा ॥ ३२ ॥
एवंभूतमेनं दृष्ट्वा लक्ष्मणः रामं स्मारयति - हे राम, अयं सोऽस्ति । स कः ।
थः भैरवसंगरे अतिभयंकरे रणे उद्धतं अननं यथा स्यात्तथा कुठारेण परशुना अर्जु-
नस्य राज्ञः कंण्ठं छित्त्वा पूर्व मूलादुत्कृत्य पश्चाजवाद्वेगेन वाहुसहस्रं काण्डं
काण्डं अखण्डयत् । नन्वर्जुनोल्पवल इति चेत्तत्राह - सप्तभिः समुद्रैः मुद्रिता वेष्टिता
वसुमती मही तस्याः पालकस्य । किंविशिष्टं कण्ठम् । अतिजरठमतिकठोरम् ।
' समौ जरठकर्कशौ' इति विश्वः । कीदृग्वाहुसहस्रम् । रेवानर्मदा तत्तीरनिरोधाय
हेतुभूतं गहनम् । स्त्रीभि: कीडन्येन भुजसहस्रेण सरित्प्रवाहमेवारुणत्त
जसहस्रम् । केन हेतुनाखण्डयत् । वर्षीयसा वृद्धिंगतेन । पितृवधजन्यक्रोधे-
नेत्यर्थः ॥ ३२ ॥
.
पुनः परशुं दृष्ट्वा -
येन त्रिःसप्तकृत्वो नृपबहलवसामांसमस्तिष्कपंक-
प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः ।
यस्य स्त्रीबालवृद्धावधि निधनविधौ निर्दयो विश्रुतोऽसौ
राजन्योच्चांसकूटऋथनपटुरटदोरधारः कुठारः ॥ ३३ ॥
रामं स्मारयित्वा पुनस्तत्परशुं स्मारयति । येनेति । यस्य परशुरामस्यासौ कु
ठारो विश्रुतः सर्वतो विख्यातः सोऽयमिति पूर्वेणैव सम्बन्धः । असौ कः । येन
कुठारेण स्त्रीवालवृद्धावधि स्त्रियश्च वालाश्च वृद्धाश्च तत्पर्यन्तं यद्धननविधानं तस्मि-