This page has not been fully proofread.

१७०
 
हनुमन्नाटकं -
 
[ अङ्कः-
सिञ्चतीति । मलयजरसैश्चन्दनोदकैः पुष्पितकमलमकरन्दयुक्ताः याः वारस्तासां
धारैव सारो येषु तैः रामं सिञ्चति वियोगतापशान्त्यर्थमिति भावः । चक्रवाक्याः
दृशा हेतुना रामदुःखदर्शनात्सानन्दं चक्रवाकी क्षणं विलापहेतुः । कुतः यस्मात्र-
यापीश्वरोप्यतिधार्मिकोपि एतां पदवीं मूर्च्छनारूपां ब्रह्मशापात्त्वं मुग्धो भवेति जाम-
दम्यवचनादास्थितः । अतः धर्मोऽप्रमाणं शाप एव प्रमाणमिति । अत्र गुर्वाज्ञापा-
लनं धर्मस्तत्कृतेपि दुःखावगमाद्धर्मे प्रामाण्यमिति ॥ १६ ॥ १७ ॥
 
तत्र निकुम्भिलाद्रौ न्यग्रोधमूलेऽवटे
रावणिः ( सत्वरम् )
 
कुण्डे विभीतकसमिद्भिरथार्धचन्द्रे
शक्रेभकुम्भदलनः पलमाजुहाव ।
 
हनूमान्-
शत्रुंजये रथवरेऽर्धसमुद्गतेऽग्ने -
 
यज्ञं बभञ्ज तरसा हनुमानुपेत्य ॥ १८ ॥
 
कुण्डे इति । शक्रेभकुम्भदलन: मेघनाद: अर्धचन्द्राकारे कुण्डे पलं स्वमांसमिति
ज्ञातव्यम् । तरसा बलेन ॥ १८ ॥
 
लक्ष्मणः-
रणप्राङ्गणे शनैश्चरादाप्य दाशरथेनार्पितं संहारास्त्रमनुस्मृत्य
सानन्दं शोकमपहाय रे रे माया रथारूढप्रौढबाहुशालिन्मे-
घनाद मायां विभिद्य त्वां यमलोकं प्रस्थापयामि पश्य ।
दोः स्तंभास्फालकेलिस्फुटविकट र वध्वस्तघोरान्धकारः
संहारास्वं नियोज्य स्वधनुषि धरणीं पाणिनाहत्य वीरः ।
क्रोधान्धो रावणस्य ज्वलदनलशिखामुद्धिरन्पाणियुग्मे
स्थित्वा चिक्षेप सौमित्रिरथ दृढशिरो मेघनादस्य साद्रि ॥ १९ ॥
इति श्रीहनुमन्नाटके मेघनादवधो नाम द्वादशोऽङ्कः समाप्तः ॥ १२॥
 
S