This page has not been fully proofread.

१२.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१६९
 
द्विधा कृतां तां पुनराददानो मायारथस्थोऽम्बरवर्त्मना च ।
ब्रह्मोपदेशात्स निकुम्भिलाद्रेर्न्यग्रोधमूलावटमाजगाम ॥ १४ ॥
 
द्विधेति । ब्रह्म वेदस्तस्योपदेशादथर्वणमन्त्रोपदेशात् । यद्वा ब्रह्मा प्रजापतिस्त-
स्वाज्ञातः वक्ष्यमाणशक्तित्वात् । निकुम्भिल : त्रिकूटान्तःपाती गिरिः अवर्ट कुण्डं
तन्त्राभिचारकर्मणा मायारथमुत्पादयितुं जगामेत्यभिप्रायः ॥ १४ ॥
 
( समरचत्वरे ) रामः-
दृष्ट्वा मायाजनकतनपाखण्डनं रामचन्द्रो
गुर्वीमुर्वीतलमुपगतो दीर्घमासाय मूर्च्छाम् ।
तत्पादाये पुनरनुजनिश्चेतनां प्राप्य रामं
 
कृत्वोत्संगे स्मरसि न गिरं व्याहरन्नित्यरोदीत् ॥ १५ ॥
 
हष्वेति । गुव मूर्च्छामासाद्य दीर्ण रामशोकात्सीताखण्डनाद्वा दीर्ण विदलितं
सीतापुत्रीत्वाभिमानादिरं वेदवाणीं न स्मरसि 'अजो नित्यः शाश्वतोयं पुराण: '
इति स्मरणाज्जामदग्न्यदत्तमुग्धत्वरूपं वा ॥ १५ ॥
 
लक्ष्मणः-
सिंचयनं विकचनलिनीगर्भनिर्मुक्तवारा
धारासारैर्मलयजरसै रामधर्मोऽप्रमाणम् ।
यस्मादेतां त्वमपि पदवीमास्थितो ब्रह्मशापा-
दित्यालापैर्विलपति दृशा लक्ष्मणश्चक्रवाक्याः ॥ १६ ॥
 
MEN
 
सा यथा-
एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थ
भानोविंम्बं सजलगलितेनापरेणात्मकान्तम् ।
अछेदे दयितविरहाशंकिनी चक्रवाकी ।
संकण जति रसौ रौद्रकारुण्यसंज्ञौ ॥ १७ ॥