This page has not been fully proofread.

१६८
 
हनुमन्नाटकं -
 
प्राणा दिवं व्रजत साधुगिरा मुमोच
श्वासानिलं जनकजा सह सङ्गरेण ॥ ११ ॥
 
प्राणेति । हे प्राणा: ! यावत् मा इति मां स्वर्गेप्यनवलोक्य तो मौ राममणी
स्वर्गाद्ब्रह्मलोकं नाधिगच्छतः न व्रजतः तावञ्झटिति शीघ्रं यूयमिति शेषः । दिवं
व्रजतेत्यन्वयः । एवमुक्ते सति साधुगिरा सीते विषादं माकार्पोरयं जीविष्यतीति
सरमोक्तथा सङ्गरेण संग्रामेण सह जनकजा श्वासानिलं मुमोच । उच्छ्वासं त्यक्त-
ती रामावलोकनं चकारेति भावः ॥ ११ ॥
 
समरादपहृतं विमानं सरमया रावणभयादित्यभिप्रायः ।
अत्र वैकुण्ठाद्गरुड:-
हाहाकारं निशम्य त्रिभुवनविदितं रावणेः कर्म घोरं
क्रोधाने धूमधाटीदलितरिपुकुलं त्रासयवाक्षसेन्द्रम् ।
पक्षाघातप्रचण्ड प्रचलित पवनध्वस्तशैलेन्द्रपातैः
 
;
 
[ अंङ्क:-

 

 
संप्राप्तो वैनतेयः स्रवदमृतरसो जीवयामास रामम् ॥ १२ ॥
 
*
 
सकाशात् या धूमघाटी धूमातिशयस्तेन दलितं रिपुकुलं येन ।
तृतीय चरणार्थेन राक्षसेन्द्रं त्रासयन्त्रवदमृतरस इति जीवनाय गर्भितो हेतुः ।
वागर्थ:- राममनुलक्षीकृत्य दृष्ट्वा चेत्यर्थः । रामं दृष्ट्वा स्वयं सचेतनोभूदित्यर्थः ।
तवमानश्रवणा चेतनत्वात् ॥ १२ ॥
 
रावणिः-
( सभयं रणसंकटमुपलभ्य समपञ्चम् )
पापो विरच्य समरे जनकस्य पुत्रों
हा राम राम रमणेति गिरं गिरन्तीम् ।
खङ्गेन पश्यत वदन्निति रे प्रवीरा
मायामयीं शिवशिवेन्द्रजिदाजधान ॥ १३ ॥
 
रामसंजीवनात्सर्वान् जीवया मासेत्यर्थः । रावणिः समयं रणसङ्कटमुपलभ्य
संप्राप्य रे वीराः, पश्यत इति वदन्सन् इन्द्रजिन्मेघनादः । अन्यत्सुगमम् ॥ १३ ॥