This page has not been fully proofread.

१२. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
हा राघव प्रियतम स्फुरतीह वामो
बाहुस्तथा नयनमप्यनृतं किमेतत् ।
नाद्यापि यन्मधुरनिर्मलदृष्टिपातैः
 
संभावयस्यपि विलासागरा भुजाभ्याम् ॥ ८ ॥
 
सा भवतु नामानता
मित्यत आह - अद्यापि
सुखयसीति ॥ ८ ॥
 
शकुनोप्यनृत इत्याह - हेति । बाह्वादिकमप्यनृतं कथं जाव-
एतावन्मयोक्ते सति निर्मलदृष्टिपातैम न संभावयसि
 
उक्तं च यतः -
 
संमानितापि न तथा मुदमभ्युपैति
 
मात्रानुजेन जनकेन तथाग्रजेन ।
आश्वासितापि रमणी रमणेन तूर्ण
प्रेम्णा यथा मधुरनिर्मलदृष्टिपातैः ॥ ९ ॥
 
उक्तं च यत इति ॥ ९॥
 
प्राणेश्वर: प्रतिगिरं न ददाति रामो
हा वत्स लक्ष्मण ममापनयेन रुष्टः ।
मद्दत्सलस्त्वमपि नोत्तरमाददासि
भान्त्वा भुवं मम कृतेऽथ दिवं गतौ वा ॥ १० ॥
 
१६.७
 
राममुक्त्वा लक्ष्मणमुपालभते प्राणेश्वर इति । हा कष्टं वत्स लक्ष्मण, ममाप-
नयो नयाभावस्तेन रुष्टः प्राणेश्वरो रामः प्रत्युत्तरं न ददाति । रक्षोहस्तगताया:
प्राणघारणमनयः महत्सलस्त्वमपि मातृस्नेहवान् । त्वमप्युत्तरं न ददासि तन्मया
ज्ञातम् । भुवं भ्रान्त्वा मम कृते दिवं गतौ । वा वितर्फे ॥ १० ॥
 
स्वर्गादिमौ झटिति मानवलोकयन्तौ
न ब्रह्मलोकमधिगच्छत एव तावत् ।