2023-03-19 23:53:36 by ambuda-bot
This page has not been fully proofread.
हनुमन्नाटकं -
सलक्ष्मणो रावणिबाणजालैः ।
रणे हतोऽयं मुदमुद्दहन्ती
चन्द्रोदये नृत्यति चक्रवाकी ॥ ५ ॥ ;
शशाप यो मे इति पद्यं कस्यापि समस्यारूपम् । अत्रानुपयुक्तम् ॥ ५ ॥
सरमा-
[ अङ्कः-
श्रुत्वा हतिं दशरथात्मजयोर्विमान-
मारुह्य पुष्पकमवाप्य दशाननस्य ।
आज्ञां निनाय सरमा जनकस्य पुत्रीं
सीताविदीर्णहृदयासि दिवं गतासि ॥ ६ ॥
श्रुत्वति । हृतिं वन्धनं दशाननस्याज्ञामवाप्य जनकस्य पुत्री पुष्पकविमानमारुह्य
गंतासि । सादरं यथा स्यात्तथा 'खगक्षेपणयोरसिः' इति धरणिः । गत आक्षेपो
यत्र तसि दिवं निनाय असियुक्ता दिवं संग्रामभूमिं निनाय ' द्यौः स्त्रियां रणनाकयोः
इति हलायुधः । असिपदेनातिभीषणत्वमुक्तम् । किंभूता सरमा । सीतार्थ विदीर्ण-
हृदयं यस्याः सा सरमा गतासि सादरं यथा स्यात्तथा असि दिवं यज्जयादियुक्तरण
निनाय मायया प्रापेति वाक्यार्थः ॥ ६ ॥
जानकी-
किं भार्गवच्यवनगौतमकाश्यपानां
वाणी वसिष्ठमुनिलो मशकौशिकानाम् ।
जाताऽनृताप्यहह आलपिता त्वया मे
स्यान्मनचूचुक्कुचा सघवेति राम ॥ ७ ॥
किमिति । अहहेति खेदे । भार्गवादीनां सा वाणी अनृता जाता । सा का ।
या त्वया सह मे मां प्रति । कर्मणि पष्ठी । इति आलापिता । इति का । सीते त्वं
सधवा स्याः न कदाचिद्विधवात्वं प्राप्नुहोति । कुत इत्यपेक्षायामाह- कीदृशी मन्नौ
चतौ चूचुकौ च एवंभूतौ कुचौ यस्याः सा । उक्तं च - 'आभोगमन्नशिरसौ
यत्या: स्तः सततं कुचौ । सा नारी सधवा नित्यं न कढ़ाचित्तदप्रिया :
इति बहवः ॥ ७ ॥
-