This page has not been fully proofread.

१२. ]
 
दीपिकाव्यव्याख्योपेतम् ।
 
सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः
किंचिभङ्गलीलानियमितजलधिं राममन्वेषयामि ॥ २ ॥
 

 
क्षुद्रा इति । क्षुद्रा अल्पतरा:, हरयोपि वानराः, एनं मदुपस्थितं संत्रासं विजहत
त्यजत । कुत इत्यत आह - युष्मदेहेष्विति । लज्जावत्वे निमित्तं प्राह - भिन्नेति । हे
सौमित्रे, स्वमपि तिष्ट रणादुपरम । कुत इत्यत आह - मम रुपां पात्रं नासीति ।
तर्हि किं करिष्यसि इत्यत आह - राममिति ॥ २ ॥
 
सुग्रीवमारुतिनलाङ्गन्दनील मुख्या
बाप्पान्धकारजलदान्तरितं प्रचण्डम् ।
तं रावणि जलदमण्डलमास्थितं नो
पश्यन्ति तान्प्रहरति स्म स घोरबाणैः ॥ ३ ॥
 
१६५
 
सुप्रीवेति । सुग्रीवादयस्तं रावणि तो पश्यन्ति । स मेघनाद : घोरैर्बाणैस्तान्सु-
श्रीवादी प्रहरति स्मेत्यन्वयः । अदर्शने हेतुमाह - बाप्पाजलकणाः अन्धकारच .
तक्तेन जलदेनान्तरितमाच्छादितं 'वाप्पो जलकणे बाष्पं नेत्रवारिणि चाप्यध'
इति धरणिः ॥ ३ ॥
 
मायारथं समधिरुह्य नभःस्थलस्थो
गम्भीरकालजलंदध्वनिरुज्जगर्ज ।
बाणैरपातयदहो फणिपाशब-
स्तौ मेरुमन्दरगिरी पविनेव शकः ॥ ४ ॥
 
मायेति । कालजलदस्य प्रलय मेघस्येव ध्वनिर्यस्य सः । फणिपाशो नागपाशः
तदावृतैर्नागपाशात्मकैरिति । तौ रामलक्ष्मणौ अपातयत् ववन्ध । वागर्थः । शक्रः
पविना मेरुमन्दरगिरी इव तौ रामलक्ष्मणौ अपातयत् । पातयामासेत्यर्थः । अहो
किमर्थेऽत्र्ययम् ॥ ४ ॥
 
अत्रान्तरे पूर्ववैरमनुस्मरन्ती चक्रवाकी सरोवरस्था-
( शशाप यो मे दयितं स रामः
 
१ यह मूलका लोक नही है समस्यापूर्ति है ।