This page has not been fully proofread.

१६४;
 
हनुमन्नाटकं -
 
[ अङ्क:-
मरुदिति । ते प्रसिद्धाः इन्द्रः मुखमिव मुखं येषां ते यस्या लङ्कायाः पुरद्वारे
चहिद्वारे 'पुरद्वारं तु गोपुरम्' इत्यमरः । संमानान्ता सर्वतोवरुद्धा । प्रकृष्टकोपेन यो
व्याकम्पः विशेषेणासमन्ततस्तयुक्तानि अधरपुटतटानि येषां ते ॥ ४१ ॥
इति श्रीहनुमन्नाटकटीकायां कुम्भकर्णवधो नाम एकादशोऽङ्कः ॥ ११ ॥
 
J
 
द्वादशोऽङ्कः-
रावणः सक्रोधं - तूर्ण पूर्णकटकं पुत्रमिन्द्रजितं दुष्कर सर यज्ञे
अध्वर्युं वृणोति स्म इन्द्रजित्सत्वरं कुम्भकर्णवधामर्षमूच्छितः
सीतापतिवधे बद्धलक्ष्यः समरचत्वरेज्वतीर्णः । इतों-
लक्ष्मणो धनुर्गुणटणत्कारैर्धरणिगगनान्तरमापूरयन्को-
पानलज्वालावलीभिः सलङ्काधिपां लङ्कां कवलयन्धोर-
समरनासीरेवतरति स्म ।
 
1
 
रावणिः--( लक्ष्मणमवलोक्य )
नाहं सौमित्रिकोपस्य जानेऽल्पमपि कारणम् ।
नूनं चञ्चलबुद्धीनां स्नेहकोपावकारणौ ॥ १ ॥
 
'सेनामुखं तु नासीरं' इत्यमरः । नाहमिति । अहम् आत्मनि सौमित्रिं प्रति यो
मदीयः कोपस्तस्याल्पमपि कारणं न जाने येनैनं उपहन्यामीति । मनु चेत्त्वयि
कारणं नास्ति तर्ह्यसौ कथं रुष्टस्तत्राह- चञ्चलबुद्धीनां लक्ष्मणसदृशानां स्नेहकोपाव-
कारणौ निर्निमित्तौ । यद्वा अः विष्णुस्तत्प्रेरितौ । यद्वायमर्थः । नूनमिति ज्ञात्वा
चलबुद्धीनामसमीक्ष्यकर्तॄणां मादृशां स्नेहकोपौ अकारणौ विष्णुनिमित्तौ । तस्य
शुभाशुभकर्तृत्वात् ॥ १ ॥
 
अपिच-
क्षुद्राः संत्रासमेनं विज़हत हरयो भिन्नशभकुम्भा
युष्मद्देहेषु लज्जां दधति परभमी सायका निष्पतन्तः ।