This page has not been fully proofread.

दीपिकारख्यव्याख्योपेतम् ।
लक्ष्मणः-
देवाः सर्वे विमानान्यपनयत खे: स्यन्दनो यातु दूरं
रे रे शाखामृगेन्द्राः परिहरत रणमाङ्गणं राक्षसाश्व ।
वज्रत्रस्ताञ्जन।द्रिप्रतिनिधिरवधिः सर्वविस्मापकानां
लंकात कहेतुर्निपतति नभसः कौम्भकर्णः कबन्धः ॥ ३९ ॥
अथ लक्ष्मणो रामवीर्यमधिकृत्य कवन्धमनुवर्णयति - देवा इति । प्रतिनिधि-
स्तुल्यः । सर्वमेव सुवोधम् ॥ ३९ ॥
 
११.]
 
१६३
 
(नृतः कुभकर्णः )
 
उत्क्रान्तोऽपि स्वदेहात्मवरसुरवधूदोर्भिराकृष्यमाणः
प्राणत्राणाय भर्तुः पुनरपि समरापेक्षया नारुरोह ।
संगीतैर्नारदायैर्मृदु सुरजरवैः स्तूयमानो विमानं
 
वीरः संग्रामधीरः शिव शिव स कथं वर्ण्यते कुम्भकर्णः ॥ ४० ॥
 
उत्क्नान्तोपीतिं । स्वदेहान्द्राक्षसान्तरादुत्क्रान्तः उद्गतोपि अप्सरोभिर्वरणार्थमा-
कृप्यमाणोपि विमानं नारुरोहेत्यन्वयः । अनारोहणे हेतुः - भर्तृ रावणस्य प्राणरक्ष-
णाय पुनरपि संग्रामेच्छयेति नारदाद्यैर्नारदमुखैर्गन्धर्वैः । कीदृशैः । सुष्टु गीतानि
चेपां तैः ॥ ४० ॥
 
लङ्काशिखरस्थो रावणः- ( सविस्मयम् )
 
मरुञ्चन्द्रादित्याः शतमुखमुखास्ते ऋतुभुजः
पुरद्वारे यस्याः सभयमुपसर्पन्त्यनुदिनम् ।
प्रकोपव्यांकम्पाधरतटपुटैर्वानरसटैः
समाकान्ता सेयं शिव शिव दशग्रीवनगरी ॥ ४१ ॥
 
इति श्रीहनुमन्नाटके कुम्भकर्णवधोना पैकादशोङ्कः ॥ ११