This page has not been fully proofread.


 
१६२
 
हनुमन्नाटकं -
 
[ अङ्कः-
जालोकित: 'परिवर्जने' यद्वा रिपोः परितः शङ्का इता यस्मात्तेन । कस्मादिव ।
कालान्तकादिव कालः प्रलयस्तत्कर्तुरन्तकादिव उम्रञ्चासौ नृसिंहश्च क्रुद्धनर-
सिंह इव ॥ ३५ ॥
 
मैनाको मेरुश्शृङ्गस्थित इव हनुमत्पाणिपने नगेन्द्रः
कल्पान्ते मन्दराग्रेजन इव समरे मुद्गरः कुम्भकर्णे ।
अ ऋव्यादवीरः प्रहितमनिलजेनाच्छिन मुद्गगरेण
लांगूलेनाञ्जनेयोद्भुतजनितरुपा मुद्गरं द्राक् चकर्ष ॥३६॥
 
मैनाक इति । हनुमत्पाणिपझे नगेन्द्र गिरिरिव । भातीति शेपः । क समरे ।
किंभूते समरे । कल्पान्ते कल्पानामतिसमर्थानामपि अन्तो यस्मिन्मन्दराग्रे मन्दर-
रसि अमृतमथनार्थ मन्दराक्रमणार्थम् अजनो भगवानिव । कुम्भकर्णे मुद्गर इति ।
रोप॑ सुवोधम् ॥ ३६॥
 
रामः ।
 
अत्रान्तरे रघुपतिः शरयुग्म मैन्द्रं
द्राकुम्भकर्णनिधनाय रणे मुमोच ।
भित्त्वा बिभेद हृदयं धरणीमथैको
मूर्धानमुद्धतमखण्डयदस्य चान्यः ॥ ३७॥
 
अत्रान्तरे इति । ऐन्द्रं इन्द्रप्रदत्तं । द्राक् शीघ्रम् । शरद्वयकृत्यमाह - मित्त्वेत्यादि
अदृद्वयेन । सुवोधम् ॥ ३७ ॥
 
हनुमान् ।
उद्यन्मरुत्तनयचण्डचपेटघाता-
नमूर्धा पपात तुहिने रजनीचरस्य ।
भयो भविष्यति यदम्भसि भीमसेनो
 
'
 
बत्राम पुच्छनिकृतो गगने कबन्धः ॥ ३८ ॥
 
उद्यदिति । तुहिने उत्तरभागे हिमवदभ्यर्णे यदम्भसि यस्य मूर्ध्नि कपालस्थजले
पुच्छनिकृतः हनुमत्पुच्छताडितः ॥ ३८ ॥