This page has not been fully proofread.

११.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
लंकाशिरःस्थो रावणः-
लंकेश्वरस्तमवलोक्य रणे ज्वलन्तं
कादम्बिनीसहचरामृतवारिधाराम् ।
तूर्ण मुमोच तदुपर्युपलब्धसंज्ञो
 
भोक्तुं कृतान्त इव नीलनलौ स दध्यौ ॥ ३३ ॥
 
so
 
एतदन्तरा बानरेन्द्रौ सुप्रीवाङ्गदी फादम्विनी मेघमाला तत्सहायवान्
तस्या या अमृतवारिधारा तो लब्धसंज्ञः प्राप्तचेतनः कुम्भकर्ण: । अन्यत्सु
बोधम् ॥ ३३ ॥
 
जाम्बवान्-
दम्भोलि कुम्भकर्ण गिरिमिव तरसा पातयञ्जनुबन्धं
कण्ठं गाढं विरच्य स्वभुजगुरुमदं जाम्बवानुग्रवेषः ।
निर्मुक्तौ तावभूतामभवदथ मरुत्पुष्पवृष्टिस्तदङ्गे
गुल्फाघातेन रोपाद्रजनिचरवरस्तन्निरस्योपतस्थौ ॥ ३४ ॥
 
दम्भोलिमिति । उग्रवेपः कोपातिशयाज्जाम्बवाञ्जानुबन्धं यथा स्यात्तथा जानु-
वन्धं जानुप्रहारं तरसा वलेन कुम्भकर्णमपातयदित्यर्थः । दम्भोलिर्वत्रः गिरिमिव ।
किं कृत्वा । गाढं यथा स्यात्तथा कण्ठं विरच्य गृहीत्वा । स्वभुजयोर्गुरुर्मदो यस्य ।
अथ तौ नीलनलौ निर्मुक्तावभूताम् । तदङ्गे जाम्बवदङ्गे मरुद्भिर्मुक्ता पुष्पवृष्टिरभ-
चत् । ततो रजनिचरवरः कुम्भकर्ण: गुल्फाघातेन तं जाम्बवन्तं निरस्योत्क्षिप्यो-
तस्थौ ॥ ३४ ॥
 
आलक्षितो रघुवरेण सलक्ष्मणेन
कालान्तकादिव रिपोः परिशङ्कितेन ।
स्थानं जगाम हनुमान्समरेऽवतीर्य
माहेश उग्रनरसिंह इवारुणाक्षः ॥ ३५ ॥
 
आलक्षित इति । माहेशो रुद्रावतार : हनूमान्समरेऽवतीर्य स्थानं शत्रुस्थानं
जगामेत्यन्वयः । किंभूतः । रिपोः सकाशात्परिशङ्कितेन निर्भयेन रघुवरेण आलक्षित
 
११