2023-03-19 23:53:07 by ambuda-bot
This page has not been fully proofread.
दीपिकाख्यव्याख्योपेतम् ।
भुग्दन्दशूकविजिहागाः । मायिकामृतपालेयशेपाख्याश्चाष्टजातयः' । सर्पेति प्रौदितः ।
सर्वेपु पङ्कजं यथा स्थलजेप्वपि कमलमिति । ' भिन्दन् भूतलम् -' इत्यादि पद्यमत्र
केचित्पठन्ति तत्प्रक्षिप्तमस्ति । रुन्धन्नित्यनेनैकार्थत्वात् ॥ २७ ॥ २८ ॥
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो
भस्मस्निग्धपवित्रलाञ्छितमुरो धत्ते त्वचं रौरवीम् ।
मौञ्ज्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं
पाणौ कार्मुकसाक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २९ ॥
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
यः ससोम इव धर्मंदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ ३० ॥
मुनिराजगामेति पूर्वेण संवन्धः । पृष्ठतस्तूणीद्वयं निपङ्गयुग्मं धत्ते । एतेन सर्व
द्वितीयान्तं योज्यम् । रुरुञ्चित्तलो मृगः । मञ्जिष्ठया रक्तं माञ्जिष्ठकं वासः । उक्तं
च-' ब्रह्मव्रतधरो वासो वसानो रक्तमुत्तमम् ' इति पाराशरः । किंविशिष्टो मुनिः ।
दण्ड : ' अर्शआदिभ्योऽच् ' । प्रशस्तो दण्डोऽस्यास्तीति दण्डः । ब्रह्मव्रतेपि क्षत्र-
दमनः । पुनः किंविशिष्टः । न कश्चित्परः श्रेष्टो यस्मात्स: अपरः । पुनः
पैप्पल: पिप्पलो ब्रह्मसूत्रमस्यास्तीति पैप्पलः । स्वार्थे तद्धितः 'अर्श-
आदिभ्योऽच् ' । यज्ञोपवीतवानिति 'अश्वत्थे ब्रह्मसूत्रे च पिप्पलोऽस्त्री गुणेष्वपि '
इति धरणिः । ' दण्डं परं पैप्पलम् ' इति पाठे अश्वत्थस्य दण्डं धत्ते । ' विभृयात्पै-
प्पलं दण्डं ब्रह्मव्रतधरः सदा ' इत्युक्तत्वात् । अपरः पैप्पलं दण्डं धत्ते इति वार्थः ।
समुच्चयोऽयमलंकारः । 'पदार्थानामनेकेपां यत्रकस्मिन्निबन्धनम् । एकया क्रि-
यया विज्ञैः स प्रोक्तो हि समुच्चयः । वैरिणोरपि वीरशान्तरसयोरत्र युक्त्या योजनं
अदोषाय । ' युक्त्या कृतोपि संयोगस्तयोर्वाढं न दुप्यति' इत्युक्तत्वात् ॥२९॥३०॥
आजन्म ब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान-
ज्याघातश्रेणिसंज्ञान्तरितवसुमती चक्रजैत्रप्रशस्तिः ।
वक्षःपीठे घनास्त्रवणकठिने संक्ष्णुवानः पृषत्का-
न्प्राप्तो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्न्यः ॥३१॥
आजन्मेति ॥ एवंभूतो जामदद्भ्यः संप्राप्त इत्यन्वयः । पृथुलौ मांसलौ भुजावेव
शिलास्तम्भौ तयोर्विभ्राजमाना या ज्याघातश्रेणी प्रत्याचिकास्फोटनपंक्तिः तस्याः