This page has not been fully proofread.

१६०
 
हनुमन्नाटकं
 
[ अङ्कः-
निक्षिप्य कवलयति कपिशिविरः कपिकटकः श्वसनसहचरा: उवाससङ्गिन: एके
वानराः मुखस्था अपि कर्णरन्ध्रान्निर्गच्छंति । घोरं यथा स्यात्तथा दशनखण्डिता
नप्येतान्कर्णद्वारान्निर्गतान् पुनरत्ति पुनर्वयति ॥ २९ ॥
 
-
 
सव्येन सान्द्रशिबिरं स्वकरेण धुन्च-
न्व्यात्ताननस्य कटकं तत उत्तरेण ।
सुग्रीवमेव कपिवीरवरेषु सत्सु
 
जग्राह कोपकलितो युधि कुम्भकर्णः ॥ ३० ॥
 
सव्येनेति । स कुम्भकर्णः सव्येन करेण वामहस्तेन सान्द्र शिविरं निविडाव-
मोचनं कटकं धुन्वन्विद्रावयन् ततो विद्रावणानन्तरमुत्तरेण दक्षिणहस्तेन सुग्रीवं
मेव जमाहेत्यन्वयः । स्ववैरूप्यकर्तृत्वात् । अन्यत्सुवोधम् ॥ ३० ॥
 
तातं विलोक्य विषमस्थमथांगदस्तं
गारुत्मतेन भुवि पातयतिस्म शत्रुम् ।
मुक्तोऽपि निःश्वसति यावदसौ कपीन्द्र-
स्तावद्वबन्ध नरसिंहपदादं सः ॥ ३१ ॥
 
तातमिति । तातं सुग्रीवं गात्मतेन गरुडपाशेन शत्रुं कुम्भकर्णमुक्कोपि कुम्भ-
कर्णहस्ताद्गलितः कपीन्द्रः सुग्रीवः यावन्निःश्वसिति सचेतनो भवति तावत् स कुम्भ-
कर्णः पतित्वोत्थितः सन्नरसिंहपढ़ा नरसिंहपाशेन अङ्गमपि ववन्ध ॥ ३१ ॥
 
दृष्ट्वा नीलस्तदुभयमपि यस्तमाक्रम्य रक्षः-
स्कंधे मौलौ श्रवणकुहरे घ्राणवोदरेषु ।
तीव्रज्यालो दहति कुपितः स्वेन रूपेण वीरः
ऋव्यादोऽभूत्तदनु विकलः प्रोत्थितौ वानरेन्द्रौ ॥ ३२ ॥
 
दृष्ट्येति । तदुभयं सुप्रीमङ्गदं च ग्रस्तं वद्धं स्वेन रूपेण अग्निरूपेण तदुवतार-
त्वात् रक्षः कर्म राक्षसं दहतीति तदनु दाहमनुलक्षीकृत्य कव्यादः कुम्भकर्णः
विकलोऽभूत् ॥ ३२ ॥