2023-03-19 23:53:36 by ambuda-bot
This page has not been fully proofread.
११.]
दीपिकाख्यव्याख्योपेतम् ।
१५९
निःश्वस्येति । नयनकमलयोः सकाशाद्वाप्पमुत्सृज्य आत्मनः स्वस्य वारि जलं
दत्त्वा सकरुणं यथा स्यात्तथा लोपगूढं लकालिङ्गनं कृत्वा । कीदृशं लङ्कोपगूढम् ।
अपुनर्भावि यत्पुनर्न भवतीत्यपुनर्भावि । सुगमम् ॥ २६ ॥
"
तं दृष्ट्वा जीविताशं गिरिवरकुहरं त्रस्तचित्ताः कपीन्द्राः
केचित्पादान्तवात प्रचलितपवनान्दोलिताः खे चरन्ति ।
केचिद्दोर्दण्डचण्ड भ्रमण निपतिताः शोणितान्युद्भिरन्ति
प्राणान् केचित् प्रवीराः कथमपि दधति स्फीतफूत्कारभिन्नाः २७
तमिति । तम् अरूपं दृष्ट्वा त्रस्तचित्ताः गिरिवराणां कुहरं विवरं चरन्ति गच्छन्ति
'नागलोकोऽथ कुहरं सुपिरं विवरं विलम्' इत्यमरः । पादान्तवातप्रचलितपवनान्दो
लिताः । पादान्तवातत्प्रचलितो वेगवान्यः पवनस्तेनान्दोलिताः सन्तः खे चरन्ति
निर्गच्छन्ति स्फीताः । वर्धिताश्च ते फूत्काराश्च तैभिन्ना विदीर्णाः । अन्य-
सुगमम् ॥ २७ ॥
●
उत्क्षिप्य शूलमजयं त्रिपुरान्तकस्य
संहारकेतुमिव कोटितडित्यभाभिः ।
घोरं ज्वलन्तमुरसि क्षिपति स्म रक्ष-
स्तारापतेस्तदिपुणा रघुणा निरस्तम् ॥ २८ ॥
उत्क्षिप्येति । क्रेनाप्यजितभित्यजयम् । त्रिपुरान्तकस्य रुद्रस्य शूलं रुद्रप्रसादप्राप्त-
मिति कोटितडितामिव याः प्रभास्ताभिर्घोरं दुष्पेक्ष्यं रक्षः कर्तृ कुम्भकर्णः तारापतेः
सुग्रीवस्योरसि निक्षिपति सतीत्यन्वयः । रघुणा श्रीरामेण तत्रिशूलं इपुणा बाणेन
निरस्तं अन्तैरेवखण्डितम् ॥ २८ ॥
क्रोधानेजठराग्नेः कपिशिबिरगतो मुद्गरं व्याददानो
व निक्षिप्य कोटिं कवलयति भटानुत्कटान्कुंभकर्णः ।
कांवपिनष्टि श्वसनसहचरा वानराः कर्णरन्धा-
निर्गच्छन्त्येक एतान्पुनरपि दशनैश्चर्वितानत्ति घोरम् ॥ २९ ॥
तत्क्रोधमनुवर्णयति-क्रोधाग्नेरिति । कुम्भकर्णः क्रोधाग्नेः सकाशाजाठरो योग्नि-
स्तस्मात्सकाशात्काघात्क्षुधावाधादिति कोटिं भटान्को टिसंख्याकान्वानर मुख्यान्वक्रे