This page has not been fully proofread.

हनुमन्नाटकं -
 
अपिच-
नाहं वाली सुबाहुर्न खरत्रिशिरसौ दूपणस्ताटकाहं
नाहं सेतुः समुद्रे न च धनुरपि यत्र्यम्बकस्य त्वयात्तम् ।
रेरे राम प्रतापानलकवलमहाकालमूर्त्तिः किलाहं
वीराणांमौलिशल्यः समरभुविचरः संस्थितः कुम्भकर्णः ॥ २४ ॥
 
नाहमिति । खरच त्रिशिराश्चैतौ राक्षसजातौ । आत्तं भग्नं रामस्य चः प्रतापा-
नलस्तस्य यः कवलस्तद्ग्रहणाय महाकालरूपः । अथ वागर्थः । वाल्यादिभिरशन-
पूर्तिर्न जाता । मया तु रामप्रतापान्निस्तृप्तो भविष्यतीत्याह- रामप्रतापालनस्य
क़चलाय यो महान्कालस्तस्य मूर्तिरेकोऽस्मीति बुभुक्षितरामानेरतिकालो यातस्त-
पूर्तिरद्येति भावः ॥ २४ ॥
 
१५८
 
[ मैक
 
(ततो गगनमुत्पत्य )
 
सुग्रीवं वाहुमूले पुवगवलपतिं कण्ठदेशे भुजेन
 
क्षिप्त्वा निष्पीडच गाढं रजनिचरपुरी संदधानो जगाम ।
सानन्दं कुम्भकर्णस्तदनु कपिभटस्तस्य तूर्ण सकर्णे
घ्राणं जग्ध्वा जगाम स्वशिविरसुदरं कूर्परेणाभिहत्य ॥ २५ ॥
सुग्रीवमिति । चाहुमूले कक्षायां गाढं यथा स्यात्तयां निप्पीड्य पुनरचेतनं
ज्ञात्वा सुजेन कण्ठदेशे क्षिप्त्वा संदधानः सन् सानन्दं यथा स्यात्तथा लङ्क ज
कूर्परेण बाहुमध्यस्थानेन 'स्यात्कफोणिस्तु कूर्परः' इत्यमरः ॥ २५ ॥
 
निःश्वस्योत्सृज्य बाप्पं नयनकमलयोश्वात्मनो वारि दत्त्वा
कृत्वा लंकोपगूढं सकरुणमपुनभवि नीत्वा त्रिशूलम् ।.
क्रोधान्धः कालमूर्तिः प्रलयहुतवहाङ्गारनेत्रो विकर्णे-
छिन्नमाणोऽवतीर्णः पुनरपि समरप्राङ्गणे कुम्भकर्णः ॥ २६ ॥
 
1
 
१ म्रुश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा सा प्रसिद्वा, इतिलक्षणानुरोधेन खरत्रिशिरस्रेति :
पदे छन्दोभंगः कस्य प्रमादेन निपतित इति न ज्ञायते ।