This page has not been fully proofread.

११]
 
दीपिकाख्यव्याख्योपेतम् ।
 
संग्रामे मम कुम्भकर्ण विजयः किं त्वगुजाडम्बरः ।
प्रत्याशाशिथिलोस्म्यहं व्रज पुनः स्वापाय निद्रालयम् ॥ २१ ॥
उत्क्षिप्तेति । उत्क्षिप्त उद्धृतो य: स्फटिकाचल: कैलासः कित्वयेति शेषः ।
सुगमम् ॥ २१ ॥
 
कुम्भकर्णो भीममालम्ब्य -
 
राजन्मागा विषादं परिहर बलवद्विद्विषः शोकशल्यं
कल्याणान्याश्रयन्तामहमहमिकया नो भवन्तं जहामि ।
कः कालः को विधाता किमरिकुलभयं को यमः के च याम्याः
को रामः के कपीन्द्राथ्वलति मयि रणे रोषिते कुम्भकर्णे ॥ २२ ॥
राजनिति । वलवांश्चासौ विद्विद् रामस्तस्य मत्सकाशात् शोकशल्यं अहमह
मिकया पूर्वशौर्यप्रकटनेन 'अहंपूर्वमहपूर्व युद्धार्होऽहमिका मता' इत्यभिधानचिन्ता-
मणौ । अन्यत्सुगमम् । सर्वकल्याणानि आश्रयन्ताम् । त्वामिति शेपः ॥ २२ ॥
 
i
 
१५७
 
रावणः ( सानन्दं ) महाबलपराक्रमै राक्षसभटैः
परिवृतो रणप्राङ्गणेऽवतरतु वत्सः ।
कुम्भकर्णः । ( साक्षेपं ) तथा कृत्वा -
अयि कपिकुलमल्लाः किं मुधा यात भीता
नहि जगति भवद्भिर्युद्ध्यते कुम्भकर्णः ।
अपि जलधरपोतो लेढि किं स्वल्पकुल्या
मपि मशककुटुम्ब केसरी किं पिनष्टि ॥ २३ ॥
 
अयोति । अयीति संभावनायाम् । हे कपिकुलमल्ला: हे कपिवराः, मुधा भीताः
सन्तः किं यात कस्माट्र्जत । तदुपपादयति नहीति । अत्र युद्धदृष्टान्तद्वयमाह-
जलधरपोतो मेघवालोपि अल्पतरमेघोपीत्यर्थः । 'पोतो वार्यानवालयोः' इति हैमी ।
 

 
कुल्याल्पा कृत्रिमा सरित् ' इत्यमरः । लेढि आस्वादयति पिनष्टि मारयति ।
राक्षसवालोपि अल्पवलैर्वानरैर्न युध्यते मम तु का कथेति भावः ॥ २३ ॥