This page has not been fully proofread.

१५६
 
हनुमन्नाटकं -
स्वकटके रामः-
[ अङ्क:-
उपस्थितं वीक्ष्य तमाह रामो लंकाशिरोनिर्मितजानुदघ्नम् ।
भो मारुते यन्त्रमुदस्तमेतत्किनेत्यवादीत्स चकुम्भकर्णः ॥ १८ ॥
 
उपस्थितमिति । तं कुम्भकर्णम् । किंभूतम् । लङ्काशिरः लङ्काशिखरं निर्मितं जानु-
दन्नं जानुप्रामाण्येन यस्य तम् । उत्थितस्य लङ्काशिखरं जानुप्रमाणमिति भावः ।
'प्रमाणे दनादयः' । भो मारुते एतल्कि यन्त्रमुदस्तं अष्टधातुघटितं लङ्काप्रक्षेपकरणं
यन्त्रम् । यद्वा यन्त्र काल उदितः किं 'यन्त्रं कालेक्षचक्रयोः' इति विश्वः । मारु-
तिर्नेत्यवादीत् । यन्त्र नेति च पुतः कुम्भकर्ण इत्यवादीत् ॥ १८ ॥
कुम्भकर्णः - (रावणसमीपभागमागम्य ) भो राजन् !
यद्यपि क्षितिपालानामाज्ञा सर्वत्रगा स्वयम् ।
 
तथापि शास्त्रदीपेन संचलन्त्यवनीश्वराः ॥ १९ ॥
 
यद्यपीति । सर्वत्रगा सर्वतोखण्डिता सर्वत्र गीयते प्रमाणीक्रियते वा । सुगमम् ।
संचरन्त्यवटेऽसतामिति पाठेन शास्त्रमेव दीपस्तस्मिन्सति असतामशास्त्र वर्तिनां
अवटे गर्तरूपे मार्गे संचरन्ति साधव इति शेपः ॥ १९ ॥
 
( रामाय जानकी दीयतामित्यभिप्रायः )
रावणः-
इदं भ्रातृवचः श्रुत्वा तथेत्याह दशाननः ।
 
शास्त्रनिःसंशया वाचः सतां कस्य न वल्लभाः ॥ २० ॥
 
pe
 
इदनिति । तथेति शिरम्चालनेनाङ्गीकारः । सतां शास्त्रानुवर्तिनां शास्त्रनि:-
संशया वाचः शास्त्रनिर्णयान्ताः । 'वद् कस्य न वल्लभा: ' इति वा पाठ: 1
सुगमम् ॥ २० ॥
 
जानकीं न समर्पयामीत्यभिप्रायाद्रावणः - ( सावज्ञम् )
उत्क्षिप्तस्फटिकाचलेन्द्रशिखरश्रेणीनिघृष्टाङ्गदै -
रोभिः पीनतरैः सुरासुरभयप्राप्त प्रतिष्ठैर्भुजैः ।
 
on