This page has not been fully proofread.

११.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
गन्धर्वयक्षसुरसिद्धवराङ्गनाना-
माकर्ण्य गीतममृतं परमं विनिद्रः ॥ १५ ॥
 
निद्रामिति । यदि यदा तथापि गजाक्रमणमन्त्रिचीत्कारैरपि तदा सङ्गीतमा-
कर्ण्य विनिद्रो जात इति शेषः । अमृतं अमृतवन्मधुरं परममत्युत्कृष्टलक्ष्म ॥१५॥
स्वकटके मारुतिः -
 
}
 
4.
 
जृम्भासंभार भीमनुकुटितटनटत्कुम्भकर्णाट्टहास-
व्यासव्या कोशवक्रव्यतिकरचकितप्राणिपुण्यप्ररोहः ।
लीलालोलन्मृणालीमृदुमिथिलसुतासङ्गभूपालहंसः
पायात्सिन्दूर पूर्वाचलशिखरशिरःशेखरो रामचन्द्रः ॥ १६ ॥
कुम्भकर्णोत्थापनमिया वानरानवलोक्यातिसदयो मारुतिः आशियमनुवति ।
जृम्भेति । रामचन्द्रः पायात् । किंभूतः । जृम्भासंभारेण जृम्भातिशयेन भीमं यत्
भृकुटितटं तेन सह नटत् आविर्भवत् कुम्भकर्णाट्टहासस्तस्य व्यासेन विस्तरेण युक्तो
यो व्याकोशोन्तरालस्तद्युक्तं यद्वकं तस्य व्यतिकरेण किमिदमित्यज्ञानेन चकिता ये
प्राणिनस्तेषां पुण्यप्ररोह: पुण्योदयस्तयनिवर्तक इति । पुनः लीलायै लोलन्ती
चञ्चला मृणाली पद्मिनी तद्वन्द्वी च या मिथिलसुता तस्याः सङ्गे राजहंसः यथा
पद्मिनीसङ्गाद्राजहंसो मोदते तद्वदयमपि सीतासङ्गादिति भावः । पुनः सिन्दूरवद-
रुणो यः पूर्वाचल उदयगिरिस्तस्य शिखरे शिर इव शिरः सूर्यस्तस्य शेखरः शिरो-
रत्नसूर्यकुलकेतुरिति ॥ १६ ॥
 
लंकायां कुम्भकर्ण:-
सुप्तोत्थितः कवलयन पलशैलजालं
 
तीव्रासवं परिपिचन्नपि कुम्भकर्णः ।
 
१५५
 
Ng
 
-
 
तृप्तिं जगाम न तथेत्यवदत् सुराया
गंगां पिबामि यमुनां सह सागरेण ॥ १७ ॥
 
सुप्तोस्थित इति । पलशैला: मांसगिरयस्तेपां जालं वहुपर्वतोच्चमांसराशिमिति ।
तीव्रासवमतिमादकमदिराम् । यदा तृप्तिं न जगाम तदा इत्यवदत् । इति किम् ।
सुराया इत्यादि ॥ १७ ॥