This page has not been fully proofread.

1
 
११.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१५३
 
अ इति । प्लवगवलपतेः सुप्रीवस्य, अक्षस्य त्वत्सुतस्य हन्तु: हनुमतः अके
इत्युभयन्त्र धनुर्जयस्यातिशयज्ञानार्थ रक्षःकुलन्नमिति । अत्र ज्याविशिष्टत्वं प्रगुणि-
तत्वं त्वदनुजवचने । एतेन लङ्काभङ्गक्रमकथाकथनं सूचितम् ॥ ७ ॥ ८ ॥
 
गगनं गिलितं भूमिर्गिलिता गिलिता दिशः ।
सरितः प्लवगैः पीताः सीतापतिपदानुगैः ॥ ९ ॥
 
.
 
गगनमिति । हे रावण, सीतापतिपदानुगैः प्रवगैर्गगनं लोपितम् । भूमिर्गिलिता
अश्या कृता । दिशो गिलिता: निरालोकीकृताः । एतेन तद्वद्दुत्वमुक्तम् ॥ ९ ॥
देव महोत्पातं पश्य मध्यन्दिनेऽपि ।
 
कचिन्मीतः कचिन्मेषः कचिल्लम्बितकृत्तिका ।
क्वचिन्मृगशिरः साई नभो व्याधगृहायते ॥ १० ॥
 
-कचिदिति । पूर्वाचरमचरणउत्तर रेवत्युपलक्षितो मीन: । अश्विनीभरण्युपल-
क्षितो मेपः कृत्तिका सबैव सा आर्द्रासहितं मृगशिरः । व्याधगृहेपि मीनो मत्स्यः
कृत्तिका कृपाणिका 'कृत्तिका स्त्री कृपाणिका' इति हैमी । मृगशिरो मृगमस्तकं
साह्रै सरुधिरम् ॥१० ॥
 
रावणः - (साभ्यसूयम् )
 
अहो महोदरामात्य किमर्थ वल्गसेपश्य-
प्रतापं संसोढुं रविरपि दशास्यस्य न विभु-
निमज्जत्युन्मज्जत्य परजलधौ पूर्वजलधौ ।
हरि: शेते वार्षी निवसति हिमाद्रौ पुरहरो
विरिञ्चिः किञ्चापि स्वनिजकमलं मुञ्चति न वा ॥ ११ ॥
रावणः एतदुक्तैरात्मनोऽमङ्गलमवगम्याक्षिपति- प्रतापमिति । प्रतापाक्रान्तः
शैत्यमाश्रयतीति प्रसिद्धम् । तदेव द्योतयति- अपरजलधौ पश्चिमसमुद्रे मजति पूर्व-
समुद्रे उन्मज्जति स्वस्य जनिरुत्पत्तिर्यस्मात्तत्कमलम् ॥ ११ ॥
 
अत्रान्तरे यथा रावणो न वेत्ति तथाशोकवनिकास्थित
विमाने जानकीमारोप्य रामं दर्शयति स्म सरमा ॥
 
iştir