This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
कटके वानरभटास्तद्वोरचीत्कारमाकर्ण्य भैरवरवै-
र्दोस्तम्भास्फालकेलिममिनीय साटोपमुत्पाटितमू-
लोयशैलधारिणः प्रचण्डकोलाहलेन लङ्कामाकु-
लयन्तोऽकूपारस्येव यामिन्याः परं गताः ॥
लंकायां रावणः सूर्योदयमासाथ वानरवाहिनीको-
लाहलामर्पमूच्छितः समरभूमौ कटकमुत्कटं प्रस्था-
प्य लंकाबलशिखरपकमारुह्य पुरः स्थितेन महो-
दरेण मंत्रिणा सह रामवाहिनी महिमानं पश्यति स्म ।
तत्र रामकटके वानरा:-
खेलन्तोखिलवानरा जलनिधौ दृष्ट्वा रणे राक्षसा-
नृत्पाट्याशु विमानमेव जगृहु: पृथ्वीं समां चक्रिरे ।
दृष्ट्वा तं च विभीषणं रघुपते त्राहीति वाक्यं तदा
श्रुत्वासौ हनुमानुपेत्य तरसा मीत्या ददर्श स्वयम् ॥ ४ ॥
 
खेलन्त इति । आशु शीघ्रमुत्पादय उन्मूल्य विमानं विविधवृक्षसमूहं 'मानश्चि-
तोन्नती वृक्षे ' इति हैमी । मानानां समूहो मानं विविधं मानं, यद्वा उत्पाट्य धुरा-
द्यमानि विभज्य विमानं राक्षसानां रथादीनि विभीषणं दृष्ट्वाच पुनः रघुपते त्राहीति
विभीषणवलस्य वाक्यं श्रुत्वा हनुमानुपेत्य स्वयमात्मानं प्रीत्या ददर्श दर्शयामास ।
विभीपणस्थानमगमदित्यर्थः । अन्यत्सुगमम् ॥ ४ ॥
 
लङ्कायां रावणः महोदरं पृच्छति । भो महोदर !
कदागतो रामोऽस्माभिर्न विदितं रामागमनदिनम् ॥
महोदरः --( सीतां प्रयच्छतु रामायेति बुद्ध्या साहसमवलम्ब्य )
राजबँकेश्वर ।
 
न्यञ्चद्भवलयं चलत्क्षितिघरं क्षुभ्यत्समस्तार्णवं
 
११.]
 
१५१