This page has not been fully proofread.

हनुमन्नाटकं -
 
दिग्दन्तिस्खलनं कुलाद्रिचलनं सप्तार्णवोन्मेलनं
वैदेहीमदनं मदान्धदमनं त्रैलोक्यसंमोहनम् ॥ २६ ॥
 
तत्र तस्मिन्नवसरे त्रुट्यद्भज्यमानं भोमो रुद्रस्तद्धनुस्तस्य कठोर : परुषो निनादः
सविस्मयमाश्चर्यमकरोत् । तदेव द्योतयति- त्रस्यन्तो वाजिनो यस्यासौ त्रस्यद्वाजी
स चासौ रविश्च तस्य शब्दश्रवणमात्रेण त्रस्ताश्वस्य रवेरमार्गगमनमकरोदिति
सर्वत्रानुबद्धथते । सप्तार्णवानामुञ्चैराकाशमेलनं ऐक्यतां न तु भूमौ । तथा सति
भूलय: स्यात् । एतत्पद्येनाद्भुतरसो दर्शितः । उक्तं च मदीयरसोदधौ-'यामो-
चितविभाव: पुष्टि याता रातर्हि विस्मयजा । रसोद्भुताख्यः सः स्यात्पूर्णोऽपि
स्याद्विभावोऽत्र ॥ २६ ॥
 

 
रुन्धनष्ट विधेः श्रुतीर्मुखरयन्नष्टौ दिशः कोडय-
न्मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः ।
तान्यक्ष्णा वधिराणि पन्नगकुलान्यष्टौ च संपादय-
न्नुन्मीलत्ययमार्यदोर्बलदलत्कोदण्डकोलाहलः ॥ २७ ॥
 
१६
 
लक्ष्मणः-
WES
 
[ अङ्कः-
-
 
गद्यम् – जामदग्न्यस्त्रुट्यभैरवधनुः कोलाहलामर्षमूच्छितः
प्रलयमारुतोद्भूतकल्पान्तानलवत्प्रदीप्तरोषानलः ।
रामं प्रति परशुरामं सूचयनूं-
यभञ्ज जनकात्मजाकृते राघवः पशुपतेर्महद्धनुः ।
तद्धनुर्गुणरवेण रोषितस्त्वाजगाम जमदग्निजो मुनिः ॥ २८ ॥
तमेवाद्भुतरसं विशिनष्टि–रुन्धमिति । आर्यो रामस्तस्य भुजबलेन दलद्भज्य-
मानो यः कोदण्डो धनुस्तस्य कोलाहल : शब्दाडम्बरोऽयमुन्मीलति प्रकटी भवति ।
किं कुर्वन् । विधेर्ब्रह्मणः अष्ट श्रुती: कर्णान्निरुन्धन्ध्यावृण्वन्, अष्टौ दिश: मुखर
यन्प्रतिध्वनिना वाचालिताः कुर्वन्, महेश्वरस्याट मूर्ती: क्रोडयन्व्याकुलयन् । तथा
चागमे - ' भूर्जलं वह्निराकाशं वायुर्यज्वा शशी रविः । इत्यष्टौ मूर्तयः शम्भो..
र्मङ्गलं जनयन्तु नः' इति । अष्टौ कुलक्ष्माभृतः कुलगिरीन्विस्फोटयन्, तानाहा..
गम: - ' विजयः कुमुदो नीलो निपधो हिमवानथ । जयन्तः कालनिपधो वाहीऽको-
ष्टौ दिगद्रयः ' इति । एते पूजनविधाने । पन्नगकुलान्यपि तत्रैव - ' नागसर्पोरगाखु-