This page has not been fully proofread.

हनुमन्नाटकं -
 
रामः- ( विहस्य )
 
भो महावीराङ्गन्द युवराज वानरभटान्चूहि । भो भोः
सुग्रीवसैनिका रात्रौ सावधानतया स्थातव्यं श्व:-
सूर्योदये रामस्य समरोत्सवो भविष्यति ॥
अङ्गन्दस्तथैव करोति । कटके शयानौ रामलक्ष्मणौ
निहन्तुं रावणेन प्रहिता प्रभञ्जनी नाम राक्षसी ॥
• उत्खातदारुणसुतीक्ष्णकृपाणि कासौ
वीराटवीषु निशि निर्भरतः शयानम् ।
दृष्ट्वा सुदर्शन गुरुमणेन गुप्तं
रामं निहन्मि कथमद्य वरं वराकी ॥ २ ॥
 
उत्खातेति । अस्यायमर्थः । सा प्रभञ्जनी राममिति दध्यौ । इति किम् ।
 
*
 
तराक्यहं अद्यास्मिन्नवसरे कथं निहन्मि । कीदृशी उत्खाता कोशान्नि:सारिता
दारुणा सुतीक्ष्णा च कृपाणिका छुरिका यस्याः सा । हननाक्षमत्वमेव द्योतयति-
निर्भरतः निविडासु वीराटवीषु वीरपंक्तिषु शयानं 'वनपंक्त्योरथाटवी' इति हैमी ।
तत्रापि सुदर्शनाख्यचक्रस्य गुरु यथा स्यात्तथा भ्रमणेन रामस्य विश्वतः परिक्रमेण
गुप्तं रक्षितम् ॥ २ ॥
 
तंत्रावसरे प्रबुद्धमंगदं वीरमवगम्याधीरं पुनर्गन्तुमुद्यता प्रभञ्जनी ॥
अङ्गदः ( साटोपम् )
 
मा गास्तिष्ठ निशाचरि क्षणमपि स्थित्वा पुनर्गम्यतां
यत्रास्ते भुजविक्रमाखिलजगविद्रावणो रावणः ।
अयाप्यङ्गन्दबाहुपाशपतिता झूढे किमाक्रन्दसे
सिंहस्यान्तिक मागतेव हरिणी कस्त्वां परित्रायते ॥ ३ ॥
 
हे निशाचार, मा गाः क्षणं स्थित्वा यत्र रावणस्तन्त्र पुनर्गम्यताम् । किमानन्दसे
....माक्रन्दं करोषि । सुगमम् ॥ ३ ॥
 
१५०
 
d
 
[ अङ्कः-
skys