This page has not been fully proofread.

११. ]
 
दीपिकाख्यव्याख्यापैतम् ।
 
१४९
 
राज्यं प्राप्स्यामीति मृगतृष्णाविषयः सीताभिलापस्तदन्वेषणरूपः, रमयति सर्वा-
निति रामो राज्यं तद्भावो राज्यत्वमपि प्राप्तम् । अन्यत्पूर्ववत् । अथास्य तृतीयो-
प्यर्थोस्ति । कस्यचिद्भिक्षकवाक्येन । विपया: स्रक्चन्दनस्त्रीपुत्रलालनरूपास्त एव
मृगतृष्णावविद्यमानास्तैराहता धीर्यस्य तेन मया भिक्षुणा जनस्थाने जनानां
लोकानां स्थानेस्थाने गृहेगृहे भ्रान्तम् । एकवचनमुपलक्षणं जात्येकवचनं वा । वै
निश्चयेन प्रतिपदं देहीति उदश्रु यथा स्यात्तथा प्रलपितम् । 'पदं स्थाने रसस्थिती'
इति चरकः । यस्य रसस्य यः आश्रयस्तद्ग्रे तद्रसाभिनयेन उदश्रुत्वमुक्तम् । अलम-
त्यर्थ काभर्तुः कुत्सितप्रभोः संबन्धे बदनस्य परिपाटी रसाभिनयवाक् चातुर्यादिरूपा
तस्या विशेपे घटना चेष्टा कृता । एवं रामत्वं तत्तद्रञ्जनत्वमाप्तं कुशलवसुता उत्त-
मवसुत्वं रत्नहेमादिसमूहरूपा नाधिगता न प्राप्तेति ॥ २४ ॥
 
इति श्रीमद्धनुमन्महानाटके दीपिकायां मोहनदासविरचितायां रावण
प्रपञ्चो नाम, दशमोऽङ्कः ॥ १० ॥
 
एकादशोऽङ्कः ।
 
अथ तत्र सुवेलाद्रिकटके लंकापतेः सकाशादधिगतं
दूतमङ्गन्दं जानकीवल्लभः पप्रच्छ । अये दूताङ्गन्द !
लंकेश्वरे सन्धिर्न जनिता प्रीतिकारिणी स्यादनुप-
कारिणी वा ॥
 
अङ्गदः-
B
 
राजन् सर्वथेयमनुपकारिणी पुलस्त्यापत्ये प्रीति-
रिति भगवानिहोदाहरणम् हरिणाडुशेखरस्तद्गुरुत्वात् ॥
उक्षा रथो भूषणमस्थिमाला भस्माङ्गरागो गजचर्म वासः ।
एकालयस्थेऽपि धनाधिनाथे सख्यौ दशयं त्रिपुरान्तकस्य ॥ १ ॥
 
अथेतिं । उक्षेति । उक्षा वृपः धनाधिनाथे कुबेरे त्रिपुरान्तकस्य रुद्रस्य दशा
विपरीता तथा रुद्रानुचरस्यापि । रावणस्य विपरीतैव मतिरिति भावः ॥ १ ॥